Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v5.c71.s1.270

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v5.c71.s1.270

Language
English

v5.c71.s1.270

¹⁸¹ यथा स्मृतिसागरे देवलः। कालातिरेके द्विगुणं प्रायश्चित्तं समाचरेत्। द्विगुणं राजदण्डं च दत्त्वा शुद्धिामवाप्नुयात् ॥ कालातिरेके संवत्सरातिरेके। संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दम-इति मनुवचने (8 373) संवत्सरात्परतो द्विगुणदण्डदर्शनेन दण्डवत्प्रायश्चित्तानि भवन्तीति न्यायेन एकत्र निर्णीतः शास्त्रार्थो बाधकमन्तरेणान्यत्रापि तथेति न्यायाच्च। प्राय. तत्त्व p 474; vide p 530 of the same work for the same न्याय. 'अथ मण्ड-पोद्यानादि-देवतागारादि-भेदने काश्यपः । वापीकूपारामसेतुतलातहागवद्देवतायतनभेदने प्रायश्चित्तम् ।...ब्राह्मणान्भोजयेत्। इति। एतच्चाल्पोपघाते। महतोपघातेऽभ्यासे प्राजापत्यादि कल्पनीयम्। देवता चात्र मृन्मयी पूजोझिता च ग्राह्या। प्रायश्चित्तस्याल्पत्वादन्धत्र दण्ड-गौरवदर्शनेन प्रायश्चित्तगौरवं कल्प्यं दण्डवत्प्रायश्चित्तानि भवन्तीति वचनात् । तथाच दण्डगौरवमाह कात्यायनः । ..विष्णुरपि ..मनु. . इति।

Linked texts (5)