History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v5.c71.s1.391
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v5.c71.s1.391
- Language
- English
v5.c71.s1.391
²⁴⁷ गोमतीविद्यामाह प्रायश्चित्तकाण्डकल्पतरौ यम । गोमतीं कीर्तयिष्यामि सर्वपापप्रणाशिनीम् । तां तु मे गदतो विप्राः शृणुध्वं सुसमाहिताः ॥ गाव. सुरभयो नित्य गावो गुग्गुलुगन्धिका । गाव. प्रतिष्ठा भूताना गावः स्वस्त्ययनं महत् । अन्नमेव पर गावो देवाना हविरुत्तमम् । पावनं सर्वभूतानां क्षरन्ति च हवींषि च ॥ हविषा मन्त्रपूतेन तर्पयन्त्यमरान्दिवि । ऋषीणामग्निहोत्रेषु गावो होमप्रयोजिका ॥ पावन सर्वभूताना गाव क्षरणमुत्तमम् । गाव पवित्र परम गावो मङ्गलमुत्तमम् । गावः स्वर्गस्य सोपानं गावो धन्याः सनातना । नमो गोभ्य श्रीमतीभ्य सौरभेयीभ्य एव च । नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नम । ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम् । एकत्र मन्त्रास्तिष्ठन्ति हविरन्यत्र तिष्ठति ॥ प्राय तत्त्व pp. 522-523, अपरार्क and प्रा प्रकाश folio 1166 with some variations such as 'सर्वभूताना रक्षन्ति च वहन्ति च ' अपरार्क p. 1102 quotes the verses from गाव सुरभयो to पवित्राभ्यो नमो नमः।
Cites (1)
- Yamasmṛti — Yama, Sanskrit