History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v5.c71.s1.89
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v5.c71.s1.89
- Language
- English
v5.c71.s1.89
⁵⁹ तथा देवलः । आचायैश्च पिता ज्येष्ठो भ्राता चैव महीपति. । मातुलः श्वशुरस्त्राता मातामहपितामहौ ॥ वर्णज्येष्ठ पितृव्यश्च पुंस्येते गुरवो मताः । त्राता प्राणरक्षकः । वर्णज्येष्ठ. क्षत्रियादीनां ब्राह्मण । प्राय वि p 129, यद्यपि देवलवचनेनैव एकादश गुरवो दर्शिता-स्तथाप्यत्र पितैव गुरुर्ग्राह्यो नाचार्यादि । . मातृगमनस्यातिपातकतत्वात् सपत्नीमातृगमनस्य गुर्वङ्गनागमनत्वेन महापातकत्वाद् अर्थादनुपातके लघूनि हीनवर्णाया पितृपत्न्या ग्रहणम् । प्राय वि pp 134-135 ... तस्माद् मातृव्यतिरिक्तैकादशगुर्वङ्गनागमनमेव महापातकंमिति युज्यते देवलवचनादिति । अत्र भवदेवेनोक्तं नात्र गुरोरङ्गना गुर्वङ्गनेति षष्ठीसमास तत्पुरुष-समासाश्रयणे निषादस्थपतिवत्षष्ठ्यर्थलक्षणपत्तेः। अतो गुरुश्चासावङ्गना चेति कर्मधारयः। गुरुत्वं च मातुरेव न मातु सपत्न्या । ... तदसमतं मातृगमन दुहितृगमन स्नुषागमनमि-त्यतिपातकानीति विष्णुहारीताभ्या मातृगमनस्यातिपातकतवाभिधानात् । यद्यपि देवलवचनेनैव एकादशगुरवो दर्शितास्तथाप्यत्र पितैव गुरुर्ग्राह्यो नाचार्यादिस्तत्पत्नीगमनस्य गुरुतल्पगमसम-स्याद्युपपत्तेरनुपातकतवगतेश्च । प्राय. वि. pp 129-134.
Linked texts (1)
- Devalasmṛti — Devala, Sanskrit