Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v5.c72.117

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v5.c72.117

Language
English

v5.c72.117

⁵⁰² अत्रेयं व्यवस्था। यः स्नेहादिना शवनिर्हरणं कृत्वा तदीयमनश्नन्नास्ते तद्गृहे च वसति तस्य दशाहेनैव शुद्धिः । यस्तु केवलं तद्गृहे वसति न पुनस्तदन्नमश्नाति तस्य त्रिरात्रम् । यः पुनर्निर्हरणामात्रं करोति न तद्गृहे वसति न च तदन्नमश्नाति तस्यैकाह इति । एतत्सजातीयविषयम् । विजातीयविषये पुनर्यज्जातीयं प्रेतं निर्हरति तज्जात्युक्तमाशौचं कार्यम् । यथाह गौतमः (१४.२६) ... विप्रस्य शूद्रनिर्हरणे मासमाशौचं शूद्रस्य तु विप्रनिर्हरणे दशरात्रमित्येवं शववदाशौचं कार्यमित्यर्थः । मिता. on या. III 14.

Linked texts (2)