History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v5.c72.498
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v5.c72.498
- Language
- English
v5.c72.498
⁷¹⁸ अथ पुन प्रतिष्ठा । तानधिकृत्य हयशीर्षपञ्चरात्रे । चाण्डालमद्यसंस्पर्शाद्दूषिता वह्निनापवा। अपुण्यजनसंस्पृष्टा विप्रक्षतजदूषिता ॥ संस्कार्येति शेषः। पदार्थादर्शे ब्राह्मे। खण्डिते स्फुटिते दग्धे भ्रष्टे मानविवर्जिते । यागहीने पशुस्पृष्टे पतिते दुष्टभूमिषु । अन्यमन्त्रार्चिते चैव पतितस्पर्शदूषिते । दशस्वेतेषु नो चक्रुः संनिधानं दिवौकसः॥ यागः पूजा पशुः गर्दभादिः ।... सिद्धान्तशेखरे। चौरचण्डालपतितश्वोदक्यास्पर्शने सति । शवादुपहत्तौ चैव प्रतिष्ठां पुनराचरेत्॥ ..शुद्धिविवेके विष्णुः । द्रव्यवत्ताशौचानां देवतार्चानां भूयः प्रतिष्ठायनेन शुद्धिरिति । अर्चाः प्रतिमाः । तद्भव्यस्य ताम्रादेरुक्तशौचं कृत्वा पुनः प्रतिष्ठा कुर्यादित्यर्थः । तद्विधिबौधायनसूत्रे । पूर्वप्रतिष्ठितस्याशुद्धिपूर्वकमेकरात्रं द्विरात्रमेकमासं द्विमासं वा अर्चनादिविच्छेदे शूद्ररजस्वलाद्युपस्पर्शने पूर्वोक्ते काले पुण्याहं वाचयित्वा युग्मान् ब्राह्मणान् भोजयित्वा निशायां जलाधिवासं कृत्वा श्वोभूते कलशपूर्तेन पञ्चगव्येन तत्तन्मन्त्रैः स्नापयित्वा अन्यं कलशं शुद्धोदकेनापूर्य तस्मिन्नवरत्नानि प्रक्षिप्य तं कलशं तत्तद्वायत्र्याष्टसहस्रमष्टशतमष्टाविंशतिवार वाभिमन्त्र्य तेनोदकेन देवं स्नापयेत्ततः शुद्धोदकेन स्नापयेदष्टसहस्रमष्टशतमष्टाविंशतिवारं वा पुरुषसूक्तेन सूक्तमन्त्रेण वा। ततः पुष्पाणि दत्वा यथासम्भवमर्चयित्वा शुद्धोदनं निवेदयेदिति । बुद्धिकूर्वे तु विच्छेदे पूर्वोक्तां प्रतिष्ठां पुन कुर्यात् । निर्णयसिन्धु III पूर्वार्ध pp 351–52 The passage from पूर्वप्रतिष्ठितस्याशुद्धि- to the end is a quotation (with some omissions and additions) from बौधायनगृह्यशेषसूत्र II.19 (Mysore Un. ed.)
Linked texts (1)
- Hayaśīrṣasaṃhitā — Sanskrit