Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v5.c73.t1.166

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v5.c73.t1.166

Language
English

v5.c73.t1.166

960a अथैनं (प्रजापतिं) पितरः प्राचीनावीतिनः सव्यं जान्वाच्योपासीदंस्तानब्रवीन्मासि मासि वोशनं स्वधा वो मनो जवो वश्चन्द्रमा वो ज्योतिरिति । शतपथ II. 4. 2 2... मासि मास्येव पितृभ्यो ददतो यदिदैवं न पुरस्तान्न पश्चादृद्धयेऽथैभ्यो ददाति... (7)...स वा अपराह्ने ददाति पूर्वाह्नो वै देवाना मध्यन्दिनो मनुष्याणामपराह्ल पितॄणां तस्मादपराह्ने ददाति । स जघनेन गार्हपत्यं प्राचीनावीती भूत्वा दक्षिणासीन एतं गृह्णाति। स तत एवोत्थायोत्तरेणान्वाहार्यपचनं दक्षिणा तिष्ठन्वहन्ति सकृत् फलीकरोति सकृदु ह्येव पराञ्चः पितरस्तस्मात्सकृत् फलीकरोति। (9) तं श्रपयति तस्मिञ्छधिश्रित आज्यं प्रत्यानयति...। (10) स उद्वास्याग्नौ द्वे आहुती जुहोति देवेभ्यः। .. अथैतत्पितृयज्ञेनैवाचरतित् ..स देवैः प्रसूतोधैतत्पितृभ्यो ददाति । ... (11) स वाग्नये सोमाय च जुहोति ..। (12) स जुहोति । अग्नये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहेत्यथौ मेक्षणमभ्यादधाति तत्स्विष्टकृद्भाजनमथ दक्षिणेनान्वाहार्यपचनं सकृदुल्लिखति तद्बर्हिभाजनम्...। (13) अथ परस्तादुल्मुकं निदधाति । स यदन्निधायाथोलमुकमथै-तत्पितृभ्यो दद्यादसुररक्षांसानि हैषामेतद्विमथ्नीरन् ..। (14) स निदधाति । ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति। परापुरो निपुरो ये भरन्त्यग्निष्टाँल्लोकात्प्रणुदात्यस्मा-दिति।...। (15) अथोदपात्रमादायावनेजयति। असाववनेनिक्ष्वेत्येव यजमानस्य पितरमसाव-वनेनिक्ष्वेति पितामहमसाववनेनिक्ष्वेति प्रपितामहं तद्यथाशिषिष्यतेऽभिषिञ्चेदेवं तत् । (16) अथ सकृदाच्छिन्नान्युपमूलं दिनानि भवन्ति अग्रमिव वै देवाना मध्यमित्र मनुष्याणा मूलमिव पितॄणां तस्मादुपमूलं दिनानि भवन्ति । (17) तानि दक्षिणोपस्तृणाति । तत्र ददाति स वा इति ददातीतीव वै देवेभ्यो जुह्वत्युद्धरन्ति मनुष्येभ्योऽथैवं पितॄणां तस्मादिति ददाति। (18) स ददाति । असावेतत्त इत्येव यजमानस्य पित्रे ये च त्वामन्वित्य हैक आहुस्तदु तथा न ब्रूयात्स्वयं वै तेषा सह येषा सह। तस्मादु ब्रूयादसावेतत्त इत्येव यजमानस्य पित्रेऽसावेतत्त इति पितामहा-यासावेतत्त इति प्रपितामहाय...। (19) तत्र जपति । अत्र पितरो मादयध्वं यथाभागमावृषा-यध्वमिति यथाभागमश्नीतेत्येवैतदाह। (20) अथ पराङ् पर्यावर्तते । तिर इव वै पितरो मनुष्येभ्य-स्तिर इवैतद्भवति स वा आतमिंतोरासीतेत्याहुरेतावान्ह्यसुरिति स वै मुहूर्तमैवासित्वा। (21) अथोपपल्यप्य जपति । अमीमदन्त पितरो यथाभागमावृषायिषतेति यथाभागमशिषुरित्येवै-तदाह। (22) अथोदपात्रमादायावनेजयति । असाववनेनिक्ष्वेत्येव यजमानस्य पितरमसाववने-निक्ष्वेति पितामहमसाववनेनिक्ष्वेति प्रपितामहं तद्यथा जक्षुषेऽभिषिञ्चेदेवं तत्। (23) अथ नीवि-मुद्रुत्य नमस्करोति। पितृदेवत्यं वै नीविस्तस्मान्नीविमुद्धृत्य नमस्करोति...षट्कृत्व नमस्करोति षड्ड्वा ऋतव ऋतवः पितर ... गृहान्नः पितरो दत्तेति गृहाणां ह पितर ईशते। एषो एतस्याशीः कर्मणोऽथावजिघ्रति प्रत्यवधाय पिण्डान् स यजमानभागोऽथौ सकृदाच्छिन्नान्यभ्यादधाति पुनरुल्मुकमपि सृजति। (24).

Linked texts (1)