Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v5.c73.t1.390

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v5.c73.t1.390

Language
English

v5.c73.t1.390

¹¹²⁴ दैवपूर्वं श्राद्धं पिण्डपितृयज्ञवदुपचार. पित्र्ये। द्विगुणास्तु दर्भाः पवित्रपाणिर्देवासनादीनः सर्वत्र। प्रभ्रेषु षड्भिर्मूर्धन्यं पृच्छति सर्वान्वा। आसनेषु दर्भानास्तीर्य विश्वान् देवानावाहयिष्य इति पृच्छत्यावाहयेत्यनुज्ञातो विश्वे देवास आगततेत्यनृचावावाकीर्य विश्वेदेवा शृणुतेममिति जपित्वा पितॄनावाहयिष्य इति पृच्छत्यावाहयेत्यनुज्ञात उशन्तस्त्वेत्यनृचावावाह्याव-कीर्य आयन्तु न इति जपित्वा यज्ञियवृक्षचमसेषु पवित्रान्तर्हितेष्वेकैकस्मिन्नप आसिञ्चति शं नो देवीरिति। एकैकस्मिंश्चैव तिलानवपति तिलोऽसि सोमदैवत्यो गोसवे देवनिर्मितः। प्रत्नमद्भिः पृक्तः स्वधया पितृँल्लोकान् प्रीणाहि नः स्वाहेति। सौवर्णराजतौदुम्बरखड्गमणिमयाना पात्राणामन्यतमेषु यानि वा विद्यन्ते पत्रपुटेषु वैकैकस्यैकैकेन ददाति सपवित्रेषु हस्तेषु या दिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्षा उत पार्थिवीर्याः। हिरण्यवर्णा यज्ञियास्ता न आप शिंवाः शं स्योनाः सुहवा भवन्त्विति। असावेष तेऽर्घ इति। प्रथमे पात्रे संस्रवान्समवनीय पितृभ्यः स्थानमसीति न्युब्जं पात्रं निदधाति। अत्र गन्धपुष्पदीपवाससां च प्रदानम्। उद्धृत्य घृताक्तमन्नं पृच्छत्यग्नौ करिष्य इति। कुरुष्वेत्यनुज्ञांतः पिण्डपितृयज्ञवद्धुत्वा हुतशेष दत्त्वा पात्रमालभ्य जपति पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहेति। वैष्णव्यर्चा यजुषा वाङ्गुष्ठमन्नेऽवगाह्यापह्ता इति तिलाविकीर्य उष्णं स्विष्टमन्नं दद्याच्छक्त्या वा। अश्नत्सु जपेद् व्याहृतिपूर्वां गायत्रीं सप्रणवां सकृत्त्रिर्वा राक्षोघ्नीः पित्र्यमन्त्रान् पुरुषसूक्तनमपिरधमन्तानि च पवित्राणि। तृप्तान्ज्ञात्वाऽन्नं प्रकीर्य सकृत्सकृदपो दत्त्वा पूर्ववद्गायत्रीं जपित्वा मधुमतीर्मधु मध्विति च। तृप्ताः स्थेति पृच्छति। तृप्ताः स्मेत्यनुज्ञात शेषमन्नमनुज्ञाप्य सर्वमन्नमेकतोद्धृत्यो- *(Continued from the last page)* च्छिष्टसमीपे दर्भेषु त्रींस्त्रीन्पिण्डानवनेज्य दद्यादाचान्तेष्वित्येके । आचान्तेषूदकं पुष्पाण्यक्षता-नक्षय्योदकं च दद्यात् । अघोरा पितरः सन्तु सन्त्वित्युक्ते गोत्रं नो वर्धता वर्धतामित्युक्ते-दातारो नोभिवर्धन्ता वेदाः सन्ततिरेव च । श्रद्धा च नो मा व्यगमद्बहु देयं च नोस्त्वित्याशिषः प्रतिगृह्य स्वधावाचनीयान्सपवित्रान् कुशानास्तीर्य स्वधा वाचयिष्ये इति पृच्छति । वाच्यतामित्यनुज्ञातः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च स्वधोच्यता-मिति । अस्तु स्वधेत्युच्यमाने स्वधावाचनीयेष्वपो निनयेत्स्यूर्जमिति । उत्तानं पात्रं कृत्वा यथा-शक्ति दक्षिणा दद्याद् ब्राह्मणेभ्यो विश्वे देवाः प्रीयन्तामिति दैवे वाचयित्वा वाजे वाजेऽवतेति विसृज्या मा वाजस्येत्यनुव्रज्य प्रदक्षिणीकृत्योपविशेत् ।