History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v5.c73.t1.50
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v5.c73.t1.50
- Language
- English
v5.c73.t1.50
⁸⁸⁸ अत्र केचिद्यथा कन्या तथा हविरिति कन्यासाधर्म्येण हविषां स्वशाखीयाप्रतिपाद्यत्वं मन्यमाना. स्वशाखीयमेव श्रोत्रियत्वादिगुणविशिष्टं श्राद्धे नियोजयन्ति। तदसत्। स्मृतीतिहास- (*Continued from the last page*) पुराणगृह्यकल्पसूत्रेषु क्वचिदपि स्वशाखीयनियमाश्रवणात् । प्रत्युत स्मृत्यादिषु त्रिणाचिकेत-त्रिमधुत्रिसुपर्णो ज्येष्ठसामग इत्यादिभिर्नानाशाखीयानां नानावेदाध्यायिनामेव विधिवर्शनाच्च .. किं च कन्यायामिव तावदेकशाखाध्यायिनियम कुतोऽवगतो यद्वलेन हविष्यपि साध्यते । ... आर्यावर्तषु च समानदेशवासिनां नानाशाखाध्यायिनामप्युपलभ्यन्त एव परस्परमनवगीयमानाः सर्वतो विवाहसम्बन्धाः । अविज्ञातपरस्पराणामेकशाखाध्यायिनामपि नोपलभ्यन्ते ।.. अतो न कन्यादाने नापि हविर्दाने स्वशाखीयद्विजनियम इति सिद्धम् । हेमाद्रि (श्राद्ध) pp. 380-381. The words यथा कंन्या तथा हविः occur in a verse of गर्ग 'नैकगोत्रे हविर्दद्याद्यथा कन्या तथा हवि.। अभावे ह्यन्यगोत्राणामेकगोत्रांस्तु भोजयेत् ।।' q by श्रा प्र p. 75. हेमाद्रि p 450 reads it as नैक. . दद्यात्त्कमान्प्रवरे तथा। न चाज्ञातकुले दद्याद्यथा कन्या तथा हवि'॥, श्रा. क ल p 39 quotes this verse and the half verse अभावे ..न भोजयेत् also The निर्णयसिन्धु III. p 397 follows हेमाद्रि and relies on मनु III 145-146. एवमपि महाराष्ट्रे विजातीया न ग्राह्यास्तत्रापि कौङ्कणस्थादयः सर्वथा न ग्राह्या इति श्राद्धदीप-कालिकादिषु प्रामाणिकनिबन्धेष्विति सर्वशिष्टसम्मतम् ।... वर्ज्याश्च द्विविधा दोषवन्त सजातीयाः गुणवन्तोऽपि विजातीयाः सुतरां दोषवन्त' । तत्र सजातीयेषु अनिषिद्धलाभेऽभिशस्तत्वा-दिचलवद्बोषरहितो दुष्टोपि ग्राह्य । विजातीयस्तु गुणवानपि तत्त्वादेव त्याज्य किमुत दोषवान् ।... केवलां चिन्तयेज्जातिं.. । कन्यादानादिसम्बन्धयोग्यां जातिं यथा कन्या तथा हविरित्युक्तेस्तेन तेपि सर्वथा हेया एवेति दिक्। बालम्भट्टी on आचार p. 497.
Cites (2)
- Mānava Dharmaśāstra — Manu & Bhṛgu, Sanskrit
- Vṛddhagārgīyajyotiṣa — Garga, Sanskrit