History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v5.c74.121
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v5.c74.121
- Language
- English
v5.c74.121
¹³²⁴ कुरुक्षेत्रसमा गङ्गा यत्र तत्रावगाहिता। विशेषो वै कनखले प्रयागे परमं महत्॥ यद्यकार्यशतं कृत्वा कृतं गङ्गाप्रसेचनम्। सर्वं तत्तस्य गङ्गापो दहन्त्यग्निरिवेन्धनम्॥ 88, सर्वे कृतयुगे पुण्यं त्रेतायां पुष्करं स्मृतम्। द्वापरेपि कुरुक्षेत्रं गङ्गा कलियुगे स्मृता ॥..पुनाति कीर्तिता पापं दृष्टा भद्रं प्रयच्छति। अवगाढा च पीता च पुनात्यासप्तमं कुलम्॥ यावदस्थि मनुष्यस्य गङ्गायाः स्पृशते जलम्। तावत्स पुरुषो राजन् स्वर्गलोके महीयते॥ 94.. न गङ्गासदृशं तीर्थं न देवः केशवात्परः। ... यत्र गङ्गा महाराज स देशस्तत्तपोवनम्। सिद्धिक्षेत्रं च तज्ज्ञेयं गङ्गातीर-समाश्रितम्॥ वनपर्व 85 88-97=पद्म I 39.81-90. नारदीय. (उत्तर) 39. 46 is कुरुक्षेत्र .. गाहिता। हरिद्वार प्रयागे च सिन्धुसङ्गे फलाधिका ॥. The नारदीयपू (उत्तर) 38. 20 is कृते तु सर्वतीर्थानि त्रेतायां . कलौ गङ्गा विशिष्यते॥ The कूर्म I 27 37 has कृते तु नैमिषं तीर्थं, The same verse is quoted from भविष्य by तीर्थचि. p. 191.
Linked texts (5)
- Padmapurāṇa — Vyāsa, Sanskrit
- Kūrmapurāṇa — Vyāsa, Sanskrit
- Nāradapurāṇa — Vyāsa, Sanskrit
- Bhaviṣyapurāṇa — Vyāsa, Sanskrit
- Mahābhārata — Vyāsa, Sanskrit