History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v5.c75.14
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v5.c75.14
- Language
- English
v5.c75.14
Note 441. ऋ १० १४. परेयिवांसं प्रवतो महीरनु बहुभ्यः पन्थामनुपस्पशानम्। वैवस्वतं सङ्गमनं जनाना यम राजानं हविषा दुवस्य ॥ १ यमो नो गातु प्रथमो विवेद नैषा गव्यूतिरप- भर्त्तवा उ । यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाः पथ्या ३ अनु स्वा ॥ २ मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिर्कक्वाभिर्वावृधान । यांश्च देवा वावृधुर्य च देवान्त्स्वाहान्ये स्वधयान्ये मदन्ति ॥ ३ इम यम प्रस्तरमा हि सीदाङ्गिरोभिः पितृभिः संविदान । आ त्वा मन्त्राः कविरशस्ता वहन्त्वेना राजन् हविषा मादयस्व ॥ ४ अङ्गिरोभिराध गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व ! विवस्वन्तं हुवे य पिता तेऽस्मिन्यज्ञे बर्हिष्या निषद्य ॥ ५ अङ्गिरसो न पितरो नवग्वा अथर्वाणो भृगव सोम्यासः । तेषा वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥ ६ प्रेहि प्रेहि पथिभिः पूर्व्येभिर्यत्रा नः पूर्वे पितरः परेयुः। उभा राजाना स्वधया मदन्ता यम पश्यासि वरुणं च देवम् ॥ ७ सं गच्छस्व पितृभि स यमेनेष्टापूर्तेन परमे व्योमन् । हित्वायावद्य पुनरस्तमेहि सं गच्छस्व तन्वा सुवर्चाः ॥ ८ अपेत वीत वि च सर्पतातॊऽस्मा एतं पितरो लोकमक्रन् । अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥ ९ अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा । अथा पितॄन्त्सुविदत्राँ उपेहि यमेन ये सधमादं मदन्ति ॥ १० यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसौ । ताभ्यामेनं परि देहि राजन्त्स्वस्ति चास्मा अनमीव च धेहि ॥ ११ उरूणसावसुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनाँ अनु । तावस्मभ्यं दृशये सूर्याय पुनर्दातमसुमद्येह भद्रम् ॥ १२ यमाय सोमं सुवृत यमाय जुहुता हवि यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः ॥ १३ यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत । स नो देवेष्वा यमद्दर्घिमायु प्रजीवसे ॥ १४ यमाय मधुमत्तम राज्ञे हव्यं जुहोतन । इदं नम ऋषिभ्य पूर्वजेभ्य पूर्वेभ्यः पथिकृद्भ्य ॥ १५ त्रिकद्रुकेभिः पतति षळुर्वीरकमिद्बृहत् । त्रिष्टुब्गायत्री छन्दासि सर्वा ता यम आहिता ॥ १६
Linked texts (1)
- Ṛgvedasaṃhitā — Sanskrit