Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v5.c75.4

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v5.c75.4

Language
English

v5.c75.4

वर्तिणुकुमुपवेश्य आचमनं कारयित्वा स्वयं द्विराचम्य पवित्रेपाणि० प्राणानायम्य गणपतिं ध्यायेत्। 'ओं गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ न शृण्वन्नूतिभिः सीद सादनम्॥' इति प्रार्थयेत्। 'ओं महागणपतये नमो नम । निर्विघ्नं कुरु' इति नमेत्। ततो देशकालौ संकीर्त्य 'इह पृथिव्या ००० नक्षत्रे अस्य परावर्तनवेद्धो० परावर्तनविधिं करिष्ये, इति सङ्कल्प्य पुण्याहवाचनं कुर्यात्। 'अस्य परावर्तनेच्छो परावर्तनाख्यस्य कर्मणः पुण्याहं भवन्तो ब्रुवन्तु' इति प्रार्थयेत्। शिष्टाः 'ओं पुण्याहम्' इति ब्रुयु । आचार्यः 'अस्य परावर्तिष्णो. करिव्यमाणपरावर्तनाख्याय कर्मणे स्वस्ति भवन्तो ब्रुवन्तु' इति ब्रूयात्। शिष्टास्तु 'ओं स्वस्ति' इति प्रत्यूचुः । आचार्य 'अस्य परावर्तिष्णोः करिष्यमाणपरावर्तनाख्यस्य कर्मण ऋद्धिं भवन्तो ब्रुवन्तु' इति ब्रूयात् । शिष्टा. 'ओं कर्म ऋध्यताम्' इति प्रत्यूवुः । ततः शिष्टानाम्स्कृत्य प्रणम्य च विसर्जयेत् । तत आचार्यों गोमयोहिते शुद्धे सुस्थलौ चतुरङ्गुलोन्मानं समचतुरश्र चतुरङ्गुलोन्नतं स्थण्डिलं कृत्वा अस्मदूप तत्र, ओं भूर्भुव स्व० प्रवेक्षनामानमग्निं प्रतिष्ठापयामीत्याग्निं प्रतिष्ठापयेत् । प्रोक्षितधनादिना धमन्यादिना प्रज्वाल्य 'अग्ने वैश्वानर शाण्डिल्यगोत्र मेषध्वज मम सङ्मुखो वरदो भव' इति प्रार्थयेत् । अग्निं परिसमुह्य परिस्तीर्य पर्युक्ष्य मदिशामान पञ्च-दशमिस प्रोक्षामान् बर्हिष संनह्यग्निस्तरतो निदध्यात्। तत आसन्नोंद्गतो भूमिं प्रोक्ष्य तत्र बर्हिरास्तीर्य तत्राज्यस्थालोमाज्यस्य पूर्णां निदधाति। दक्षिणेन हस्तेन दर्वीमग्री निष्टप्य वामहस्तेन गृहीत्वा दक्षिणेन हस्तेन दर्भामेद्विर्वात्रः संमार्ष्ट दर्भमूलैश्च दर्वीमूलम् । पुनर्निष्टप्य प्रोक्ष्य आज्यस्थालीया उत्तरतो बर्हिषि निदधाति। समांगदर्भानग्नौ प्रहरेत् । इध्मबन्धनरज्जुं भूमौ निधाय तत्रेध्मं संस्थाप्य दर्भान्येन मूलमग्रग्रागेणाभिधार्य दक्षिणेन हस्तेन गृहीत्वा 'ओं, अय त इध्म आत्मा जातवेदस्तेनेध्र्यस्व वर्धस्व चोन्धि वर्धय चास्मान्प्रजया पशुभिर्ब्रह्मवर्च-सेनान्नाद्येन समेधय स्वाहा' इति मन्त्रेणाग्नावभ्याधाय 'जातवेदसेऽग्नय इदं न मम' इति त्यजेत् । दूर्वाज्यमादाय स्थण्डिलस्य वायव्यकोणादारभ्याग्नेयकोणपर्यन्तम्खण्डधारयाऽग्नौ जुहोति। पुनर्द्धाज्यमादाय नैऋर्तेकोणमारभ्य ऐशानकोणपर्यन्तं तथैव जुहोति । तूष्णीमेतावाघारावुह्येते । पुनर्पूव्वाज्येन 'ओं अग्नये स्वाहा' इत्याहुतत्रयं जुहोति । अग्नय इदं न ममेति त्याग । पुनर्पूव्वाज्येन 'ओं सोमाय स्वाहा' इत्यसौ दक्षिणामने जुहोति । 'सोमायेदं न मम' इति त्याग । अस्मिन्काले परावर्तिणुरार्चायस्य दक्षिणतः प्रह कृताञ्जलि-स्तिष्ठन् आचार्य प्रार्थयते । 'हिन्दूत्वमागमाय । हिन्दुस्तानाम्नाति' इति । आचार्य 'ओं तथास्तु' इति ब्रूयात् । तत आचार्य. अभ्यग्नि कृताञ्जली तिष्ठति प्रविशिष्टो (अथवा कृताञ्जलिषु प्रविशिष्टेषु) दर्या आज्येन चतुभिर्मन्त्रैर्व्यस्तया प्रधानाहुतीर्जुहोति । 'ओं भू. स्वाहा । अग्नय इदं न मम । ओं सुवः स्वाहा । वायव इद न मम । ओं स्वः स्वाहा । सूर्यायेदं न मम । ओं प्रजापतये स्वाहा । प्रजापतय इदं न मम' । अथासीनं प्रविशिष्टु अग्री समिधमाधाय प्रदीप्ताया तस्या दर्व्या आज्येन पश्च महाव्याहृतीर्जुहोति। ओं उद्द्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यमन्म ज्योतिरुत्तमं स्वाहा । सूर्य्यीय ज्योतिषे इदं न मम ॥ ओं उदुत्यञ्च चित्रमहू आरोहन्नुत्तरा दिवम् । दृशेगं मम सूर्य हरिमाण च नाशय स्वाहा । सूर्य्ययेदं न मम । ओं असतो मा सद्गमय स्वाहा । परमात्मन इद न मम । ओं तमसो मा ज्योतिर्गमय स्वाहा । परमात्मन इदं न मम । ओं मृत्योर्माऽमृतं गमय स्वाहा। परमात्मन इदं न मम इति।