Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v6.c81.887

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v6.c81.887

Language
English

v6.c81.887

⁵⁶⁵ स्कान्दे । धेनुं तिलमयीं राजन् दद्याच्चैवोत्तरायणे । सर्वान् कामानवाप्नोति विन्दते परमं सुखम् ॥ विष्णुधर्मोत्तरे । उत्तरे त्वयने विप्र वस्त्रदानं महाफलम् । तिलपूर्वमनडुवाहं दत्त्वा रोगैः प्रमुच्यते । शिवरहस्ये । पुरा मकरसंक्रान्तौ शङ्करो गोसवे कृते । तिलांश्चोत्पादयामास तृप्तये सर्वदेहिनाम् । तस्मात्तस्यां तिलैः स्नानं कार्यं चोद्वर्तनं बुधैः । देवानां पितॄणां च सोदकैस्तर्पणं तिलैः । तिला देयाश्च विप्रेभ्यः सर्वदैवोत्तरायणे । तिलांश्च भक्षयेत्पुण्यान् होतव्याश्च तथा तिलाः । तस्यां तिथौ तिलैर्हुत्वा येऽर्चयन्ति द्विजोत्तमान् । त्रिदिवे ते विराजन्ते गोसहस्रप्रदायिनः । तिलतैलेन दीपाश्च देयाः शिवगृहे शुभाः । सतिलैस्तण्डुलैर्देवं पूजयेद्विधिवद् द्विजः । हे. on काल pp. 415-416 q by नि. सि. p. 218. गोसवज्ञ was one of the 16 Mahādānas. Vide H of Dh. vol II. pp. 869 and 874 With त्रिदिवे ते विराजन्ते, compare ऋ. X. 107. 2 'उच्चा दिवि दक्षिणावन्तो अस्त्युर्ये अश्वदा सह ते सूर्येण ।'.

Linked texts (4)