Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v7.c89.101

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v7.c89.101

Language
English

v7.c89.101

¹¹⁹³ स्वर्भानु-केतु-नक्षत्र-ग्रहतारार्कचन्द्रजम्। दिवि चोत्पद्यते यच्च तद्दिव्यमिति कीर्तयेत्॥ वाय्वभ्रसन्ध्यादिग्दाहपरिवेषतमांसि च। खपुरं चेन्द्रचापं च तद्विद्यादन्तरिक्षजम्। भूमावुत्पद्यते यच्च स्थावरं वाथ जङ्गमम्। तद्वैकदेशिकं भौमं भूमिचालाम्बुविक्रिया। गर्गसंहिता q. by उत्पल on बृहत्सं. 45 4-5, अ सा. p. 6; दिव्यं ग्रहसंमद्गतुल्कानिर्घातपवनपरिवेशाः। गन्धर्वपुर-सुरेन्द्रचापादि यदान्तरिक्षं तत्। भौमं चरस्थिरभवं तच्छान्तिभिराहतं शमुपैति। नाभसमुपैति मृदुतां शाम्यति नो दिव्यमित्येके॥ दिव्यमपि शमुपैति प्रभूतकनकाश्वगोमहीदानैः। रुद्रायतने भूमौ गोदोहाल्लोहिहोमाच्च॥ बृहत्सं. 45. 4-6; मत्स्य 229. 6-9 ग्रहर्क्षवैकृतं दिव्यमान्तरिक्षं निबोध मे। उल्कापातो दिशान् दाहः परिवेषस्तथैव च॥ गन्धर्वनगरं चैव वृष्टिश्च विकृता च या। एवमादीनि लोकेऽस्मिन्नान्तरिक्षं विनिर्दिशेत्॥ चरस्थिरभवो भौमो भूकम्पश्चापि भूमिजः। जलाशयानां वैकृत्यं भौमं तदपि कीर्त्यते॥ q. by हेमाद्रि on व्रत vol. II p. 1076; अग्नि (263. 12-13) has same verses as मत्स्य.

Cites (4)