History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v7.c89.54
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v7.c89.54
- Language
- English
v7.c89.54
¹¹⁶⁵ य एष स्वप्ने महीयमानश्चरत्येष आत्मेति होवाचैतदमृतमभयं ब्रह्मेति स ह शान्तहृदयः प्रवव्राज । छा. उप. VIII. 10. 1; अत्रैष देवः स्वप्ने महिमानमनुभवति यद्दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशादिगन्तरैश्च प्रत्यनुभूतं पुनःपुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वं पश्यति । प्रश्न IV. 5; कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव स हि स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि । '''स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहृत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपित्यत्रायं पुरुषः स्वयं ज्योतिर्भवति । बृह उप. IV. 3. 7 and 9. Some of these passages on dreams are relied upon and discussed by Śaṅkarācārya on Vedāntasūtra I. 3. 42, II. 1. 28, III. 2. 1-4.
Linked texts (3)
- Chāndogyopaniṣad — Sanskrit
- Praśnopaniṣad — Pippalāda, Sanskrit
- Bṛhadāraṇyakopaniṣad — Sanskrit