Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v7.c90.30

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v7.c90.30

Language
English

v7.c90.30

¹³⁴⁴ तेन सर्वस्मृतीनां प्रयोजनवती प्रामाण्यसिद्धिः। तत्र यावद्धर्ममोक्षसम्बन्धि तद्वेदप्रभवम्। यत्त्वर्थसुखविषयं तल्लोकव्यवहारपूर्वकमिति विवेक्तव्यम्। एषैवेतिहासपुराणयोरप्युपदेशवाक्यानां गतिः। उपाख्यानानि त्वर्थवादेषु व्याख्यातानि। यत्तु पृथिवीविभागकथनं तद्धर्माधर्मसाधनफलोपभोगमदेशविवेकाय किंचिद्दर्शनपूर्वकं किंचिद्वेदमूलम्। वंशानुक्रममपि ब्राह्मणक्षत्रियजातिगोत्रज्ञानार्थ दर्शनस्मरणमूलम्। देशकालपरिमाणमपि लोकज्योतिःशास्त्रव्यवहारसिद्धयर्थं दर्शनगणितसंप्रदायानुमानपूर्वकम्। भाविकथनमति त्वनादिकालप्रवृत्तयुगस्वभावधर्माधर्मानुष्ठानफलविपाकवैचित्र्यज्ञानद्वारेण वेदमूलम्। तन्त्रवार्तिक on जै. I 3 1 (धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात्).

Linked texts (1)