History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v7.c93.137
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v7.c93.137
- Language
- English
v7.c93.137
¹⁹⁴⁷ नियतोपायकं स्वत्वं लोकसिद्धमेवेति न्यायविदो मन्यन्ते। तथा हि लिप्सासूत्रे तृतीये वर्णके द्रव्यार्जननियमानां क्रत्वर्थत्वे स्वत्वमेव न स्यात् स्वत्वस्यालौकिकत्वादिति पूर्वपक्षा-सम्भवमाशङ्क्य द्रव्यार्जनस्य प्रतिग्रहादिना स्वत्वसाधनत्वं लोकसिद्धमिति पूर्वपक्षः समर्थितो गुरुणा। ननु च द्रव्यार्जनस्य क्रत्वर्थत्वे स्वत्वमेव न भवतीति याग एव न प्रवर्तेत। प्रलपितमिदं केनापि अर्जनं स्वत्वं नापादयतीति विप्रतिषिद्धमिति वदता। तथा सिद्धान्तेपि स्वत्वस्य लौकिक-त्वमङ्गीकृत्यैव विचारप्रयोजनमुक्तम्—'अतो नियमातिक्रमः पुरुषस्य न क्रतोः' इति। मिता on या II. 114.