History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v7.c93.200
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v7.c93.200
- Language
- English
v7.c93.200
¹⁹⁶⁴ चोदना पुनरारम्भः । पू मी सू. II 1 5, चोदनेत्यपूर्व ब्रूम । अपूर्व पुनरस्ति यत आरम्भ. शिष्यते स्वर्गकामो यजेतेति । इतरथा हि विधानमनर्थकं स्याद्भङ्गित्वाद्यागस्य । यद्यन्यदनुत्पाद्य यागो विनश्येत् फलमसति निमित्ते न स्यात् । तस्मादुत्पादयतीति । शबर; फलाय विहितं कर्म क्षणिकं चिरभाविने । तत्सिद्धिर्र्नान्यथेत्येवमपूर्व प्रति गम्यते ॥ वेदवाक्योपात्तस्वर्ग-यागादिसम्बन्धानुपपत्त्या चोदनयैवापूर्वमपि चोदितं भविष्यतीति प्रमाणवत् । तस्मादस्त्यपूर्वमिति। तन्त्रवार्तिक p. 390. प्रधानकर्मणामङ्गाकर्मणा वा प्राक्करणात्स्वर्गादिप्राप्त्ययोग्याः पुरुषाः क्रतवश्च स्वर्गकार्यायोग्या । तासुभयीमप्ययोग्यतां व्युदस्य प्रधानैरङ्गैश्च योग्यतोपजन्यत इत्यवश्यं सर्वेणाप्युपगन्तव्यम् । असत्यां तस्यामकृतसमत्यप्रसङ्गात् । सैव च पुरुषगता, क्रतुगता वा योग्यता शास्त्रेऽस्मिन्नपूर्वमित्युपदिश्यते । यत्तु प्रत्यक्षादिगम्यत्वमस्य नास्तीति सत्यं, श्रुतार्थापत्ति-व्यतिरिक्तैर्न गम्यते स त्वदोष' । तन्त्रवा० p 394 ; in the श्लोकवा (अर्थापत्ति०) Kumārila says 'पीनो दिवा न भुङ्क्ते चेत्येवमादिवचःश्रुतौ । रात्रिभोजनविज्ञानं श्रुतार्थापत्तिरिष्यते ॥ v. 51 तन्त्रवा० further proceeds 'एवं स्वर्गादयोप्यङ्कुरादिस्थानीयां तावदपूर्वावस्थां प्रतिपद्यन्ते तया चोत्पद्यमानया त एवोत्पन्ना भवन्तीति '. तस्मादस्त्यपूर्वम् । सूत्रस्यापि च न प्रकृतोपायिकमन्यमर्थं पश्याम । तेनारम्भचोदनैवापूर्वस्यापि चोदनेत्ययमेवार्थ.। तन्त्रवा p. 400. शङ्कराचार्य on वे सू III 2. 40 puts briefly and clearly Jaimini's view 'श्रुतिश्वेत् प्रमाणं यथायं कर्मफलसम्बन्ध श्रुत उपपद्यते तथा कल्पयितव्य । न चानुत्पाद्य किमप्यपूर्व कर्म विनश्यत्कालान्तरितं फलं दातु शक्नोति । अतः कर्मणो वा सूक्ष्मा काचिदुत्तरावस्था फलस्य वा पूर्वभावस्थाऽपूर्वं नामास्तीति तर्क्यते ।; vide भामती on वे. सू III. 2. 41.
Linked texts (3)
- Mīmāṃsāsūtra — Jaimini, Sanskrit
- Brahmasūtra — Bādarāyaṇa, Sanskrit
- Tantravārttika — Kumārila Bhaṭṭa, Sanskrit