Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v7.c93.306

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v7.c93.306

Language
English

v7.c93.306

²⁰²² नामधेयानां विधेयार्थपरिच्छेदकतयाऽर्थवत्त्वम्। तथाहि-उद्भिदा यजेत पशुकाम इत्यत्र उद्भिच्छब्दो यागनामधेयम्। तेन हि विधेयार्थपरिच्छेदः क्रियते। अनेन हि वाक्येना-प्राप्तत्वात्फलोद्देशेन यागो विधीयते। यागसामान्यस्य चाविधेयत्वाद्यागविशेष एव विधीयते। तत्र कोऽसौ विशेष इत्यपेक्षाया उद्भिच्छब्दादुद्भिद्रूपो यो याग इति ज्ञायते। मी न्या. प्र. p 206 (ADORI)