Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v7.c94.95

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v7.c94.95

Language
English

v7.c94.95

²²⁶³ On the word योगशास्त्र in याज्ञ III 109 अपरार्क quotes a long passage (all in prose except one verse) from Devala, almost the whole of which is set out here देवमानुषयोर्द्विविधः पुरुषार्थः, अभ्युदयो निःश्रेयसमिति। तयोरभ्युदयः पूर्वोक्तः। द्विविधं निःश्रेयसं साख्ययोगाविति। पञ्चविंशतितत्त्वज्ञानं साख्यम्। विषयेभ्यो निवर्त्याभिप्रतेऽर्थे मनसोऽवस्थापनं योगः। उभयत्रापवर्गः फलम्। जन्ममरणदुःखयोरत्यन्ताभावोऽपवर्गः। एतौ साख्ययोगौ चाधिकृत्य चैयाक्तिक समयतश्च पूर्वप्रणीतानि विशालानि गम्भीराणि तन्त्राणीह सङ्खिप्योद्देशतो वक्ष्यन्ते। तत्र साख्यानामेका मूलप्रकृतिः। सप्त प्रकृतिविकृतयः। पञ्च तन्मात्राणि षोडश विकाराः पञ्च पञ्चेन्द्रियाणि। अर्थांश्च (अर्थाश्च?) पञ्चभूतविशेषाः। त्रयोदश करणानि त्रीण्यन्तःकरणानि। चतस्रश्चतस्रो मातृजाः पितृजाश्च कोशाः। पञ्च वायुविशेषाः। त्रयो गुणाः। त्रिविधो बन्धः। त्रयो बन्धनहेतवः। द्वौ बन्धरागौ। त्रीणि प्रमाणानि। त्रिविधं दुःखम्। चतुर्विधः प्रत्ययधर्मः। तथा द्विविधः सर्गः। तथा विपर्ययः पञ्चविधः। अशक्तिरष्टाविंशतिधा तुष्टिर्नवविधा। सिद्धिरष्टविधेति प्रत्ययभेदाः पश्चाशत्।

Linked texts (1)