Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v7.c96.s1.31

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v7.c96.s1.31

Language
English

v7.c96.s1.31

²⁶⁰⁹ यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः। अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसका सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः॥ सुभाषितरत्नभाण्डागार (Nir ed of 1935 p. 15 verse 27). न्यायकुसुमाञ्जलि I 2 is: स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिण । यदुपास्तिमसावत्र परमात्मा निरूप्यते॥ इह यद्यपि ये कमपि पुरुषार्थमर्थयमानाः शुद्धबुद्धस्वभाव इत्यौपनिषदाः। आदिविद्वान् सिद्ध इति कापिलाः। क्लेशकर्मविपाकाशयैरपरामृष्टो निर्माणकायमधिष्ठाय सम्प्रदायप्रद्योतकोऽनुग्राहश्चेति पातञ्जलाः। लोकवेदविरुद्धैरपि निर्लेपः स्वतन्त्रश्चेति महापाशुपताः। शिव इति शैवाः। पुरुषोत्तम इति वैष्णवाः। पितामह इति पौराणिकाः। यज्ञपुरुष इति याज्ञिकाः। निरावरण इति दिगम्बराः। उपास्यत्वेन देशित इति मीमासकाः। यावदुक्तरूपपक्ष इति नैयायिकाः। लोकव्यवहारसिद्ध इति चार्वाकाः। किंबहुना कारवोऽपि यं विश्वकर्मेत्युपासते॥.

Linked texts (1)