Pramāṇa · Search · About · API

History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v7.c96.s1.36

History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v7.c96.s1.36

Language
English

v7.c96.s1.36

²⁶¹⁰ धर्मो विश्वस्य जगतः प्रतिष्ठा । लोके धर्मिष्ठं प्रजा उपसर्पन्ति । धर्मेण पापमपनुदति धर्मे सर्वं प्रतिष्ठितं तस्माद्धर्मं परमं वदन्ति। तै आ X. 63, महानारायणोप०, धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥ आदिपर्व 62 53 = स्वर्गारोहणपर्व 5 50, vide also आदि° 62 23. धारणाद्धर्म इत्याहुर्धर्मो धारयते प्रजाः । उद्योग 89.67, 137 9, धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत् ॥ मनु VIII 15 वनपर्व 313.128 is the same, except that the third pāda is तस्माद्धर्मं न त्यजामि, ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति माम् । धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥ न जातु कामान्न भयान्न लोभाद्धर्मं जह्याज्जीवितस्यापि हेतो । नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः ॥ स्वर्गारोहणपर्व 5, 62-63

Linked texts (4)