History of Dharmashastra (Ancient and Mediaeval Religious and Civil Law in India) v7.c96.s2.110
History of Dharmaśāstra (Ancient and Mediaeval Religious and Civil Law in India) v7.c96.s2.110
- Language
- English
v7.c96.s2.110
²⁶⁵⁸ प्रात स्नात्वा पूर्वाभिमुख., सायं हस्तौ पादौ च प्रक्षाल्य पश्चिमाभिमुखः आसने उपविश्य आचम्य प्राणानायम्य श्रीपरमेश्वरप्रीत्यर्थं प्रात सन्ध्योपास्तिं करिष्ये इति प्रात संकल्पं कुर्यात् । श्रीपरमेश्वरप्रीत्यर्थं सायंसन्ध्योपास्तिं करिष्ये इति सायम् । तत अर्घ्यप्रदानम् । ओं भूर्भुव स्व । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । श्रीसूर्याय इदमर्घ्य दत्त न मम इति त्याग । इति त्रिवारम् । अथ प्रातरुत्थाय सायमासीन. अष्टोत्तरशतं दशवारं वा-ओं भूर्भुव स्व तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ इति मन्त्रस्य जप कुर्यात् । तत उपस्थानम् । पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः । यत्ते रूपं कल्याणतमं तत्ते पश्यामि । योऽसावसौ पुरुषः सोऽहमस्मि (ईशावास्योपनिषद् 16) इति । तत कर्मसमाप्तिं सोदकं ब्रूयात् । अनेन सन्ध्योपासनाख्येन कर्मणा भगवान्परमेश्वर. प्रीयताम् । ओं तत्सत् । इति त्रिराचामेत् । Two lines referring to Gotra, Pravara, Veda, Śākhā and Sūtra and to making an obeisance to Guru are omitted
Linked texts (1)
- Īśopaniṣad — Sanskrit