Local Government in Ancient India c9.17
Local Government in Ancient India c9.17
- Language
- English
c9.17
न चान्यत्कारयेत्कर्म पुत्रवच्चैनमाचरेत् ॥
शिक्षयन्तमदुष्टं य आचार्यं संपरित्यजेत् ।
बलाद्वासयितव्यः स्याद्वधबन्धौ च सोऽर्हति ॥
शिक्षितोऽपि कृतं कालमन्तेवासी समापयेत् ।
तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् ॥
गृहीतशिल्पः समये कृत्वाचार्यप्रदक्षिणाम् ।
शक्तितश्चानुमान्यैनमन्तेवासी निवर्तते ॥
वेतनं वा यदि कृतं ज्ञात्वा शिष्यस्य कौशलम् ।
अन्तेवासी समादद्यान्न चान्यस्य गृहे वसेत् ॥
[V. 16–21.]
Linked texts (1)
- Nāradasmṛti — Nārada, Sanskrit