Local Government in Ancient India c9.95
Local Government in Ancient India c9.95
- Language
- English
c9.95
¹: समो न्यूनाधिको वांशो येन क्षिप्तस्तथैव सः।
व्ययं दद्यात्कर्म कुर्याल्लाभं गृह्णीत चैव हि ॥
प्रयोगं कुर्वते ये तु हेमधान्यरसादना ।
समन्यूनाधिकैरंशैर्लाभस्तेषां तथाविधः ॥
²: प्रमादान्नाशितं दाप्यः प्रतिषिद्धकृतं च यत् ।
असंदिष्टश्च यत्कुर्यात्सर्वसंभूयकारिभिः ॥
³: अनिर्दिष्टो वार्यमाणः प्रमादाद्वस्तु नाशयेत् ।
तेनैव तद्भवेद्देयं सर्वेषां समवायिनाम् ॥
⁴: दैवतस्करराजाग्निव्यसने समुपस्थिते ।
यस्तत्स्वशक्त्या रक्षेत्तु तस्यांशो दशमः स्मृतः ॥
⁵: राजदेवभयाद्वस्तु स्वशक्त्या परिपालयेत् ।
तस्यांशं दशमं दत्त्वा गृह्णीयुस्तेऽशतोऽपरम् ॥
⁶: बहूनां सम्मतो यस्तु दद्यादेको धनं नरः ।
करणं कारयेद्वापि सर्वैरेव कृतं भवेत् ॥