Early Monastic Buddhism v2.c42.s2.t1.4
Early Monastic Buddhism v2.c42.s2.t1.4
- Language
- English
v2.c42.s2.t1.4
लोकोत्तरं भगवतो चर्या लोकोत्तरं कुशलमूलम् ।
गमनं स्थितं निषणं शयितं लोकोत्तरं मुनिनो ॥
यत् तत् सुगतशरीरं भवते भवस्य बन्धनक्षयकरणम् ।
लोकोत्तरं तदपि भो इत्यत न संशयः कार्यो ॥
चीवरधरणं मुनिनो लोकोत्तरं अत्र संशयो नास्ति ।
आहारहरणमयो लोकोत्तरमेव सुगतस्य ॥
देशना नरनागानां सर्वलोकोत्तरा मता ।
यथातथं प्रवक्ष्यामि माहात्म्यं वरबुद्धिनाम् ।
देशकालवशं प्राप्य परिपाकं च कर्मणाः ।
सत्यं वा अभिनिर्वृत्तं धर्मं देशन्ति नायकाः ॥