A Constructive Survey of Upanishadic Philosophy c10: Chapter VII : Mysticism
A Constructive Survey of Upanishadic Philosophy c10
- Language
- English
Chapter VII : Mysticism
c10.1
हानि ॥ ८ ॥ प्राणान्प्रपीड्येह स युक्तचेष्टः क्षीणे प्राणे नासिकयोच्छ्वसीत । दुष्टाश्वयुक्तमिव वाहमेनं विद्वान्मनो धारयेताप्रमत्तः ॥ ९ ॥ समे शुचौ शर्करावह्निवालुका- विवर्जिते शब्दजलाश्रयादिभिः । मनोऽनुकूले न तु चक्षु- पीडने गुहानिघाताश्रयणे योजयेत् ॥ १० ॥ श्वे. II. 8-10.
c10.2
(b) पृथिव्यप्तेजोऽनिलखे समुत्थिते पंचात्मके योगगुणे प्रवृत्ते । न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् ॥ १२ ॥ लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादः स्वरसौष्ठवं च । गंधः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिं प्रथमां वदन्ति ॥ १३ ॥ श्वे. II. 12-13.
c10.3
16 (a) न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ क. II. 6. 9.
c10.4
(b) नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा । अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ क. II. 6. 12.
c10.5
(c) एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ क. I. 3. 12.
c10.6
17 (a) न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्वः ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥ मुं. III. 1. 8.
c10.7
(b) तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः । क. I. 2. 20.
c10.8
18 (a) तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण । तं विद्याच्छु- क्रममृतं तं विद्याच्छुक्रममृतमिति ॥ क. II. 6. 17.
c10.9
(b) तद्यथा क्षुरः क्षुरधाने हितः विश्वंभरो वा विश्वंभरकुलाये एवमेव एष प्राज्ञात्मा इदं शरीरं अनुप्रविष्टः आलोमभ्यः आनोखेभ्यः । कौ. IV. 20.
c10.10
(c) तिलेषु तैलं दधिमीव सर्पिरापः ज्ञातास्वरजीड चाग्निः ।
c10.11
एषमात्मात्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ॥
c10.12
(d) घृतात्परं मण्डमिवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढम् । विश्वस्यैकं परिवेष्टारं ज्ञात्वा देवं मुच्यते सर्वपापैः ॥ श्वे. IV. 16.
c10.13
19 (a) नीहारधूमार्कानलानिलानां खद्योतविद्युत्स्फटिकशशिनाम् । एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे ॥ श्वे. II. 11.
c10.14
(b) तस्य ह एतस्य पुरुषस्य रूपं यथा माहारजनं वासो, यथा पाण्ड्वादिकं, यथेंद्रगोपो, यथा अग्न्यर्चिः, यथा पुण्डरीकं, यथा सकृद्विद्युत् । ते ह वा अस्य श्रीर्भवति य एवं वेद । बृ. II. 3. 6.
c10.15
20 (a) अयमग्निवैश्वानरो योयमंतःपुरुषे येनेदमन्नं पच्यते यदिद- मद्यते तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन् भवति नैनं घोषं शृणोति ॥ बृ. V. 9. 1; मै. II. 6.
c10.16
(b) तदस्मिन्न शरीरे संस्पर्शनोष्मिानं विजानाति । तस्यैषा श्रुतिः । यत्र कर्णावपिगृह्य निनदमिव, नदथुरिव, अग्नेरिव ज्वलत उपशृणोति । छां. III. 13. 8.
c10.17
21 (a) हिरण्मये परे कोशे विरजं ब्रह्म निष्कलं । तच्छुभ्रं ज्यो- तिषां ज्योतिस्तद्यदात्मविदो विदुः ॥९॥ मुं. II. 2. 9.
c10.18
(b) एतं सेतुं तीर्त्वा अंधः सन्ननंधो भवति, विद्धः सन्नविद्धो भवति, तस्माद्वा एतं सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्प- द्यते । सकृद्विभातो ह्येष ब्रह्मलोकः ॥ छां. VIII. 4. 2.
c10.19
(c) न वै तत्र न निम्रोच नोदियाय कदाचन । देवास्तेनाहं सत्येन मा विराधिषि ब्रह्मणा ॥ २ ॥ न ह वा अस्मा उदेति न निम्रोचति सकृद्दिवा हैवास्मि भवति य एतां ब्रह्मो- पनिषदं वेद ॥ ३ ॥ छां. III. 11. 2-3.
c10.20
(d) यदाऽतमः तन्न दिवा न रात्रिर्न सन्न चासत् शिव एव केवलः । 22 (a) यमेवैष वृणुते तेनैव लभ्यः तस्यैष आत्मा विवृणुते तनूं स्वाम् ।
c10.21
(b) य एषोतरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णः । छां. I. 6. 6. योऽसावसौ पुरुषः सोहमस्मि । ई. 16.
(c) यथैव बिंबं मृदयोपलिप्तं तेजोमयं भ्राजते तत्सुधातम् । तद्वात्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थी भवते वीतशोकः ॥ १४ ॥ यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोमेनेह युक्तः प्रपश्येत् । अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १५ ॥ श्वे. II. 14-15.
(d) अयं वाव खल्वात्मा ते । यः कतमो भगव इति । तं होवाच । अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत इत्येष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्मेति । अथ खल्वियं ब्रह्मविद्या सर्वोपनिषद्विद्या वा राजन्नस्माकं भगवता मैत्रिणाऽख्याता । मै. II. 1-3.
c10.22
23 (a) नैष स्त्री न पुमानेष न चैवायं नपुंसकः । यद्यच्छरीरमादत्ते तेन तेन स रक्ष्यते ॥ श्वे. V. 10.
(b) अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत् ।... तदेजति तन्नैजति तद्दूरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ई. 4, 5. आसीनो दूरं व्रजति शयानो याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ क. I. 2. 21. बृहच्च तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति । दूरात्सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् ॥ मुं III. I. 7. अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम् ।
c10.23
अंगुष्ठमात्रो रवितुल्यरूपः संकल्पाहंकारसमन्वितो यः । बुद्धेर्गुणेनारमगुणेन चैव आराग्रमात्रो ह्यवरोऽपि दृष्टः ॥ ८ ॥ बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ ९ ॥ श्वे. V. 8-9.
c10.24
अंगुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः । क. II. 6. 17.
c10.25
24 (a) आत्मानं चेद्विजानीयादयमस्मीति पुरुषः । किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् ॥ बृ. IV. 4. 12.
c10.26
(b) भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ मुं. II. 2. 8.
c10.27
(c) समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ मुं. III. 1. 2.
c10.28
(d) तद्यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किंचन वेद, नान्तरं, एवमेवायं पुरुषः प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद, नान्तरम्, तद्वा अस्य एतदाप्तकामं आत्मकामं अकामं रूपम् ॥ बृ. IV. 3. 21.
c10.29
(e) आनन्दं ब्रह्मणो विद्वान् न बिभेति कदाचन । तै. II. 4.
c10.30
यदा ह्येवैष एतस्मिन्नदृश्ये अनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । तै. II. 7.
c10.31
25 (a) आत्मानं चेत्प्रियेयात् स्तुवीत कामं ध्यायन् अप्रमत्तो, अभ्याशो ह यत्, अस्मै स कामः समृद्धयेत यत्कामः स्तुषी- तेति ॥ छां. I. 3. 12.
c10.32
(b) य आत्माऽपहतपाप्मा विजरो, विमृत्युः, विशोकोऽविजि- घत्सोऽपिपासः, सत्यसंकल्पः, सोऽन्वेष्टव्यः, स विजिज्ञा- सितव्यः । स सर्वांश्च लोकानप्नोति सर्वांश्च कामान् यस्त- मात्मानमनुविद्य विजानातीति । (c) यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेत् सूतिकामः ॥ मुं. III. I. 10.
c10.33
26 ब्रह्मवेदममृतं पुरस्ताद् ब्रह्म पश्चाद् ब्रह्म दक्षिणतोत्तरेण । अधश्चोर्ध्वं प्रसृतं ब्रह्मवेदं विश्वमिदं वरिष्ठम् ॥ मुं. II. 2. 11.
c10.34
27 ब्रह्म ह वा इदमग्र आसीत्तदात्मानमेवेत् । अहं ब्रह्मास्मीति । तस्मात् तत्सर्वमभवत् । तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् तथा ऋषीणां, तथा मनुष्याणाम् । तदैत- त्पश्यन् ऋषिवार्मदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । बृ. I. 4. 10.
c10.35
28 अश्व इव रोमाणि विधूय पापं, चंद्र इव राहोर्मुखात्प्रमुच्य, धूत्वा शरीरं, अकृतं कृतात्मा ब्रह्मलोकमभिसं भवामीति । छां. VIII. 13. 1.
c10.36
29 अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । उर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । द्रविणं सवर्चसम् । सुमेधा अमृतोऽक्षितः । इति त्रिशंकोर्वेदानुवचनम् । तै. I. 10.
c10.37
30 स य एवंवित् । अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुप- संक्रम्य । एतं प्राणमयमात्मानमुपसंक्रम्य । एतं मनोमया- त्मानमुपसंक्रम्य । एतं विज्ञानमयमात्मानमुपसंक्रम्य । एत- मानंदमयमात्मानमुपसंक्रम्य । इमाँल्लोकान्कामान्नीकामरूप्य- नुसंचरन् । एतत्साम गायन्नास्ते । हा ३ वु हा ३ वु हा ३ वु । अहमन्नमहमन्नमहमन्नम् । अहमन्नादो ३ ऽहमन्नादो ३ ऽहमन्नादः । अह ५ श्लोककृदह ५ श्लोककृदह ५ श्लोककृत् । अहमस्मि प्रथमजा ऋता ३ स्य । पूर्वं देवेभ्योऽमृतस्य ना ३ भायि । यो मा ददाति स इदेव मा ३ द्वाः । अहमन्नमन्न- दन्तमा ३ द्य । अहं विश्वं भुवनमभ्यभवा ३ म् । सुवर्णं ज्योतीः ॥ तै. III. 10. 5-6.
c10.38
The *fraternities* of the Middle Ages, which were so numerous and so varied in their objects, were not all of the same origin. Some were religious, some social, some charitable, and some industrial. The religious guilds, or *gilds*, as they were often called, were associations of laymen for the purpose of performing religious duties, such as the maintenance of a chaplain, the celebration of masses, or the support of a hospital. The social guilds were formed for the purpose of mutual aid and good fellowship, and often included in their objects the relief of the poor, the sick, and the aged. The charitable guilds were established for the purpose of supporting hospitals, almshouses, and other institutions of mercy. The industrial guilds, or *craft guilds*, were associations of men engaged in the same trade or industry, and were formed for the purpose of regulating the trade, protecting the interests of the members, and maintaining the quality of their work.
c10.39
The craft guilds, which became so powerful in the later Middle Ages, were the successors of the earlier *collegia* of the Roman Empire. The *collegia* were associations of artisans and tradesmen, which were recognized by the state and had a legal existence. When the Roman Empire fell, these associations were largely destroyed, but the idea of association for mutual protection and the regulation of trade survived. In the early Middle Ages, the *gilds* began to reappear, and by the twelfth century they were firmly established in many of the cities of Europe.
c10.40
The craft guilds were organized on a democratic basis, and every member had a voice in the management of the guild's affairs. The officers were elected by the members, and the rules and regulations were made by the guild as a whole. The guilds had the power to fix prices, to regulate the hours of labor, and to determine the conditions of apprenticeship. They also had the power to punish members who violated the rules, and to expel those who were guilty of serious offenses. The guilds were thus a powerful force in the economic life of the Middle Ages, and they played an important part in the development of the modern industrial system.
c10.41
The decline of the craft guilds began in the sixteenth century, when the rise of the factory system and the growth of international trade made it difficult for the small, local guilds to compete with the larger and more efficient industrial organizations. The guilds were also weakened by the growth of the power of the state, which began to regulate trade and industry directly, and by the rise of the capitalist class, which sought to break the power of the guilds and to establish a system of free competition. By the end of the eighteenth century, the craft guilds had largely disappeared, but their influence lived on in the trade unions and other labor organizations of the modern world.
Linked texts (9)
- Kaṭhopaniṣad — Sanskrit
- Muṇḍakopaniṣad — Sanskrit
- Bṛhadāraṇyakopaniṣad — Sanskrit
- Chāndogyopaniṣad — Sanskrit
- Śvetāśvataropaniṣad — Śvetāśvatara, Sanskrit
- Taittirīyopaniṣad — Sanskrit
- Kauṣītakibrāhmaṇopaniṣad — Sanskrit
- Maitrāyaṇīyopaniṣad — Sanskrit
- Īśopaniṣad — Sanskrit