A Constructive Survey of Upanishadic Philosophy c6.s4: Sources III
A Constructive Survey of Upanishadic Philosophy c6.s4
- Language
- English
Sources III
c6.s4.1
I (a) अन्नमयं हि सोम्य मनः । छां. VI. 5. 4.
(b) अन्नमशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति, यो मध्यमस्तन्मांसं, योऽणिष्ठस्तन्मनः । छां. VI. 5. 1.
(c) दध्नः सोम्य मध्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति, तत्सर्पिर्भवति एवमेव खलु सोम्य अन्नस्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तन्मनो भवति । छां. VI. 6. 1-2.
c6.s4.2
2 आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः । तस्मै (नारदाय) मृदितकषायाय तमसस्पारं दर्शयति भगवान् सनत्कुमारः । छां. VII. 26. 2.
c6.s4.3
3 (a) तस्माद्वाणमन्नपानन्वाचमभिव्याहरति । छां. I. 3. 3.
(b) अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः
c6.s4.4
सरणँ दृढस्य धनुष आयतनमप्राणनपानंस्तानि करोति ।
c6.s4.5
(c) अथातः सायनं प्रातर्दनं आंतरमग्निहोत्रमित्याचक्षते । यावद्वै पुरुषो भाषते, न तावत् प्राणितुं शक्नोति, प्राणं तदा वाचि जुहोति । यावद्वै पुरुषः प्राणिति, न तावद् भाषितुं शक्नोति, वाचं तदा प्राणे जुहोति । एते अनन्ते अमृते आहुतीजाग्रच्च स्वपंश्च सन्ततं जुहोति । अथ या अन्या आहुतयः अंतवत्त्यस्ताः कर्ममय्यो हि भवन्ति, तद्ध स्मैतत् पूर्वे विद्वांसोऽग्निहोत्रं न जुहवांचक्रुः । कौ. II. 5.
c6.s4.6
4 (a) यदा ह्येवैष एतस्मिन् उदरं अंतरं कुरुते अथ तस्य भय भवति । तै. II. 7.
c6.s4.7
(b) सोऽबिभेत् तस्मादेकाकी बिभेति यन्मदन्यन्नास्ति कस्माच्च बिभेमीति तत एवास्य भयं वीवाय द्वितीयाद्वै भयं भवति । बृ. I. 4. 2.
c6.s4.8
5 तानि ह वा एतानि संकल्पायनानि, संकल्पात्मकानि, संकल्पे प्रतिष्ठितानि । समकल्पेतां द्यावापृथिवी, समकल्पेतां वायुश्चाकाशं च समकल्पंत आपश्च तेजश्च...स एष संकल्पः संकल्पमुपास्स्वेति । छां. VII. 4. 2.
c6.s4.9
6 (a) चित्तं वाव संकल्पाद् भूयो यदा वै चेतयतेऽथ संकल्पयते । ... । तस्माद्यद्यपि बहुविदचित्तो भवति नायमस्तीत्येवैनमाहुः ।...अथ यद्यल्पविच्चित्तवान् भवति तस्मा एवोत शुश्रूषंते । चित्तं ह्येवामेकायनं, चित्तमात्मा, चित्तं प्रतिष्ठा चित्तमुपास्स्वेति । छां. VII. 5. 1.
c6.s4.10
(b) मनसा ह्येव पश्यति मनसा शृणोति, कामः संकल्पो विचिकित्सा, श्रद्धाऽश्रद्धा, धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव । मै. VI. 30.
c6.s4.11
7 संज्ञानं आज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिः धृतिः मतिः मनीषा जूतिः स्मृतिः संकल्पः क्रतुः असुः कामः वशः सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति । ऐ. III. 2.
c6.s4.12
8 (a) एष ब्रह्मा, एष इन्द्रः...इमानि च पंच महाभूतानि....अंडजानि च जारुजानि च स्वेदजानि च उद्भिज्जानि च
c6.s4.13
अश्वा, गावः, पुरुषा, हस्तिनो, यत्किंचिदं प्राणि जंगमं च पतत्रि च, यच्च स्थावरं, सर्वे तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं । प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा । प्रज्ञानं ब्रह्म । ऐ. III. 3.
c6.s4.14
(b) द्विधा वा एष आत्मानं बिभर्त्ययं यः प्राणो यश्चासावादित्यः असौ वा आदित्यो बहिरात्मा, अंतरात्मा प्राणोऽतो बहिरात्मक्या गत्याऽन्तरात्मनोऽनुमीयते गतिरित्येवं ह्याह । अथ यः कश्चिद्विद्वानपहतपाप्माऽऽध्याक्षोऽवदातमनास्तब्धश्चावृत्तचक्षुः सोऽन्तरात्मक्या गत्या बहिरात्मनोऽनुमीयते गतिरित्येवं ह्याह । मै. VI. I.
c6.s4.15
9 (a) यद् वृक्षो वृक्णो रोहति मूलात्प्रवतरः पुनः । मर्त्यः स्विन्मृत्युना वृक्णः कस्मान् मूलात्प्ररोहति ॥ बृ. III. 9. 28.
c6.s4.16
(b) श्वेतकेतुर्हारुणेयः पंचालानां समितिमेयाय तं ह प्रवाहणो जैवलिरुवाच कुमार अनु त्वा अशीषत् पिता इति । अनु हि भगव इति । वेत्थ यदितोऽधि प्रजाः प्रयन्तीति, न भगव इति । वेत्थ यथा पुनरावर्तन्त इति, न भगव इति । वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना इति, न भगव इति । वेत्थ यथाऽसौ लोको न संपूर्यत इति न भगव इति । अथानु किमनुशिष्टोऽवोचथाः यो हीमानं न विद्यात्कथं सोऽनुशिष्टो ब्रुवीतेति । छां. V. 3. 1-4.
c6.s4.17
(c) येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः ॥ देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः । अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥ देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुविज्ञेयमात्थ । वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥ ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामांश्छन्दतः प्रार्थयस्व । इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः । आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं मानुप्राक्षीः । श्वोऽभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः । अपि सर्वे जीवितमल्पमेव तवैव घाहास्तव नृत्यगीते ॥ अजीर्यताममृतानामु- पेत्य जीर्यन्मर्त्यः कधस्थः प्रजानन् । अभिध्यायन् वर्णरति-प्रमोदानतिदीर्घे जीविते को रमेत ॥ यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत् । योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥
c6.s4.18
10 तद्यथास्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहृत्य पक्षौ संलयायैव ध्रियत एवमेवायं पुरुषः एतस्मा अन्ताय धावति यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति । बृ. IV. 3. 19.
c6.s4.19
11 (a) यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति ताः पुनः पुनरुद्यतः प्रचरन्त्येवं ह वै तत्सर्वं परे देवे मनस्येकीभवति । तेन तर्ह्येष पुरुषो न शृणोति, न पश्यति, न जिघ्रति, स्वपितीत्याचक्षते । प्र. IV. 2.
c6.s4.20
(b) स यदा तेजसाभिभूतो भवति अत्रैष देवः स्वप्नान् पश्यत्यथैतस्मिन् शरीरे एतत्सुखं भवति । प्र. IV. 6.
c6.s4.21
(c) तद्यत्रैतत्सुप्तः संप्रसन्नः स्वप्नं न विजानाति, आसु तदा नाडीषु सुप्तो भवति । छां. VIII. 6. 3.
c6.s4.22
(d) अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद, हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात् पुरीततमाभतिष्ठन्ते, ताभिः प्रत्यवसृप्य पुरीतति शेते, स यथा कुमारो वा महाराजो वा महाब्राह्मणो वा अतिघ्नीमानंदस्य गत्वा शयीत एवमेवैष एतच्छेते । बृ. II. I. 19.
c6.s4.23
(e) उद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नांतं मे विजानीहीति ।....स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वा अन्यत्रायतनं अलब्ध्वा बंधनमेवोपश्रयते एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वा अन्यत्रायतनं अलब्ध्वा प्राणमेवोपश्रयते प्राणबंधनं हि सोम्य मनः । छां. VI. 8. I, 2.
c6.s4.24
(f) स होवाचाजातशत्रुः प्रतिलोमं चैतद् यद्ब्राह्मणः क्षत्रियमुपेयाद् ब्रह्म मे वक्ष्यतीति, व्येव त्वा ज्ञापयिष्यामीति, तं ( गार्ग्य ) पाणावादाय उत्तस्थौ तौ ह पुरुषं सुप्तमागतुः तं एतैर्नामाभिराभमंत्रयांचक्रे " बृहन् पांडरवासः सोम राजनन् " इति, स नोत्तस्थौ, तं पाणिनापेशं बोधयांचकार (v. l. यद्यथा विविक्षेप-कौ०) स होतस्थौ। स होवाचा- जातशत्रुः यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः धवैष तदाभूत् कुत एतदागादिति तदु ह न मेने गार्ग्यः। स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः....एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते । बृ. II. 15-17.
c6.s4.25
(g) मनो ह वाव यजमानः। इष्टफलमेवोदानः, स एनं यजमानं अहरहर्ब्रह्म गमयति । प्र. IV. 4. यत्रैतत्पुरुषः स्वपिति नाम, सता सोम्य तदा संपन्नो भवति, स्वमपीतो भवति, तस्मादेनं स्वपितीत्याचक्षते । छां. VI. 8. 1.
c6.s4.26
(h) यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि संचरंतो न विंदेयुः एवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्यः एतं ब्रह्म- लोकं न विंदंति अनृतेन हि प्रत्यूढाः। छां. VIII. 3. 2.
c6.s4.27
12 (a) तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोक- स्थानं च, संध्यं तृतीयं स्वप्नस्थानं, तस्मिन् संध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्यतीदं च परलोकस्थानं च।..न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयो- गान् पथः सृजते, न तत्रानन्दा मुदः प्रमुदो भवन्त्यथान- न्दान् मुदः प्रमुदः सृजते, न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्त्यथ वेशान्तान् पुष्करिणीः स्रवन्तीः सृजते स हि कर्ता ।....प्राणेन रक्षन्नपरं कुलायं बहिष्कुलायाद- मृतश्चरित्वा। स ईयतेऽमृतो यत्र कामं हिरण्मयः पुरुष एकहंसः॥ स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि। उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन्॥ ....तद्यथा महामत्स्य उभे कूलेऽनुसंच- रति पूर्वे चापरं च, एवमेवायं पुरुषः एतावुभावन्तावनु- संचरति स्वप्नान्तं च बुद्धान्तं च। बृ. IV. 3. 9-18.
c6.s4.28
(b) अत्रैष देवः स्वप्ने महिमानमनुभवति । यदृष्टं दृष्टमनुपश्यति, श्रुतं श्रुतमेवार्थमनुशृणोति....दृष्टं चादृष्टं च, श्रुतं चाश्रु- तं च, अनुभूतं चाननुभूतं च, सत्साच्च, सर्वं पश्यति, सर्वः पश्यति । प्र. IV. 5.
c6.s4.29
13 अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेषु चरकाः पर्यव्रजाम ते पतञ्चलस्य काप्यस्य गृहानैम तस्यासीद्दुहिता गन्धर्वगृहीता तमपृच्छाम कोऽसीति सोऽ
c6.s4.30
अवीत्सुधन्वाऽऽङ्गिरस इति, तं यदा लोकानामन्तानपृच्छाम अथैनमब्रूम क पारिक्षिता अभवन्निति क पारिक्षिता अभवन्, स त्वा पृच्छामि याज्ञवल्क्य क पारिक्षिता अभवन्निति ।
c6.s4.31
14 (a) स य एतमेवं विद्वान् चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते प्रकाशवानस्मिँल्लोके भवति । छां. IV. 5. 3.
c6.s4.32
स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वै स तेजस्वतो लोकान् भास्वतो अभिसिद्धयति । छां. VII. 11. 2.
c6.s4.33
(b) अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा उल्लवोऽनूदतिष्ठन्त....स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह यदेनꣳसाधवो घोषा आ च गच्छेयुरुप च निम्रेडेरन्निम्रेडेरन् । छां. III. 19. 4.
c6.s4.34
(c) तत्प्रतिष्ठेत्युपासीत प्रतिष्ठावान् भवति । तन्मह इत्युपासीत महान् भवति । तन्मन इत्युपासीत मानवान् भवति ।... तद् ब्रह्मणः परिमर इत्युपासीत पर्यैनं म्रियन्ते द्विषन्तः सपत्नाः । तै. III. 10. 3-4.
c6.s4.35
(d) असन्नेव स भवति असद् ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद सन्तमैनं ततो विदुः ॥ तै. II. 6.
c6.s4.36
15 स य एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके । य एष स्तन इवावलम्बते । सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले । भूः.....भुवः....सुव...मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम । वाक्पतिश्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्म । तै. I. 6. 1-2.
c6.s4.37
16 (a) अथ अपहतपाप्मानस्तिग्मतेजसा ऊर्ध्वरेतसो वालखिल्या इति श्रूयते । अथ ऋतुं प्रजापतिमब्रुवन् । भगवन् शकटमिवाचेतनमिदं शरीरं....प्रचोदयिता वा अस्य यद् भगवन् वेत्ति तदस्माकं ब्रूहीति । तान् होवाचेति । यो ह खलु वाव शुष्कः....शांतः....शाश्वतोऽजः स्वतंत्रः स्वे महिम्रि तिष्ठति । अनेनेदं शरीरं चेतनवत् प्रतिष्ठापितं । प्रचोदयिता वैषोऽप्यस्येति । (b) तद्यथा क्षुरः क्षुरधाने हितः, विश्वंभरो वा विश्वंभरकुलाये एवमेवैष प्रज्ञात्मा इदं शरीरमनुप्रविष्ट आ लोमभ्य आ नखेभ्यः । तमेतमात्मानं पत आत्मानोऽन्ववस्यन्ते यथा श्रेष्ठिनं स्वाः । तद्यथा श्रेष्ठी स्वैर्भुंक्ते यथा वा स्वाः श्रेष्ठिनं भुंजंति, एवमेवैष प्रज्ञात्मा एतैरात्मभिर्भुंक्ते एवमेवैत आ- त्मान एतमात्मानं भुंजंति । कौ. IV.20.
c6.s4.38
17 (a) मनोमयोऽयं पुरुषो भाः सत्यस्तस्मिन्नंतर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किंच । बृ. V. 6. 1.
c6.s4.39
(b) अंगुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्य- स्य न ततो विजुगुप्सते ॥ क. II. 2. 12.
c6.s4.40
(c) तान्होवाचैतै वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वां- सोऽस्मात्थ यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्म- स्वभ्मत्ति । छां. V. 18. 1.
c6.s4.41
(d) नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद् भूतयोनिं परिप- श्यंति धीराः । मुं. I. 1. 6.
c6.s4.42
महांतं विभुमात्मानं मत्वा धीरो न शोचति । क. I. 2. 21.
c6.s4.43
(e) शरीरप्रादेशांगुष्ठमात्रमणोरप्यव्ययं ध्यात्वा अतःपरमतां ग- च्छति । मै. VI. 38.
c6.s4.44
(f) अणोरणीयान् महतो महीयानात्मास्य जंतोर्निहितो गुहा- याम् । क. I. 2. 20.
c6.s4.45
एष म आत्माऽन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा, एष म आत्माऽन्तर्हृदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्याया- नेभ्यो लोकेभ्यः । छां. III. 14. 3.
c6.s4.46
18 सोयमात्मा चतुष्पात् । जागरितस्थानो बहिःप्रज्ञः स्थूल- भुग्वैश्वानरः प्रथमः पादः ॥ स्वप्नस्थानोऽन्तप्रज्ञः प्रविधि- कभुक् तैजसो द्वितीयः पादः । यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एव आनंदमयो ह्यानन्दभुक् प्राज्ञस्त- तीयः पादः ॥ .....॥ नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यम- लक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपंचोपशमं शांतं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा ॥ मां. 2-7.
c6.s4.47
19 अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोंऽ- स्मिन्नंतराकाशस्तस्मिन् यदंतः स्तदन्वेष्टव्यं तद्वाव विजि- ज्ञासितव्यमिति । .....यावान् वा अयमाकाशस्तावानेषोऽ- न्तर्हृदय आकाश उभे अस्मिन् द्यावापृथिवी अन्तरेव समा- हिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि । छां. VIII. 1. 1-3.
c6.s4.48
20 (a) तस्माद्वा एतस्मादन्नरसमयाद् अन्योऽन्तर आत्मा प्राणमयः तेनैष पूर्णः । स वा एष पुरुषविध एव ।... तस्माद्वा एत- स्मात्प्राणमयाद् अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव ।... तस्माद्वा एतस्मान्मनोमयाद् अन्योऽन्तर आत्मा विज्ञानमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव ।... तस्माद्वा एतस्माद्विज्ञानमयाद् अन्योऽ- न्तर आत्माऽऽनन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तै. II. 2-5.
c6.s4.49
(b) भृगुर्वै वारुणिः वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत्प्रोवाच ।..... यतो वा इमानि भूतानि जायंते, येन जातानि जीवंति, यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व तद्ब्रह्मेति । स तपोऽतप्यत स तपस्तप्त्वा अन्नं ब्रह्मेति व्यजानात् । अन्नाद्धयेव खल्विमानि भूतानि जायंते, अन्नेन जातानि जीवन्ति, अन्नं प्रयन्त्यभिसंविश- न्तीति । तद्विज्ञाय पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तं होवाच तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मेति । स तपोऽतप्यत स तपस्तप्त्वा प्राणो ब्रह्मेति व्यजा- नात् ।......। स तपस्तप्त्वा विज्ञानं ब्रह्मेति व्यजानात् ।...। स तपस्तप्त्वा आनन्दो ब्रह्मेति व्यजानात् ।......। सैषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठिता । तै. III 1-6.
c6.s4.50
21 (a) बहूनामेमि प्रथमो बहूनामेमि मध्यमः । किस्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्यति ॥ अनुपश्य यथा पूर्वे प्रतिपश्य तथा परे ।
c6.s4.51
सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः॥
c6.s4.52
(b) तद्यथा राजानमायांतमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः पानै- राघवसथैः प्रतिकल्पंतेऽयमायात्ययमागच्छतीत्येवं हैवंविदं सर्वाणि भूतानि प्रतिकल्पंत इदं ब्रह्मायातीदमागच्छतीति। तद्यथा राजानं प्रतिवियासंतमुग्राः प्रत्येनसः सूतग्रामण्योऽ- भिसमायन्त्येवमेवेममात्मानमंतकाले सर्वे प्राणा अभि- समायन्ति। बृ. IV. 3. 37-38.
c6.s4.53
(c) स यत्रायमात्माऽबल्यं न्येत्य संमोहमििव न्येत्यथैनमेते प्राणा अभिसमायंति, स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति, स यत्रैष चाक्षुषः पुरुषः पराङ् पर्या- वर्ततेऽथारूपज्ञो भवति। एकीभवति न पश्यतीत्याहुः... एकीभवति न वदतीत्याहुरेकीभवति न शृणोतीत्याहुः... एकीभवति न विजानातीत्याहुस्तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वाऽन्येभ्यो वा शरीरदेशेभ्यः, तमुत्क्रामंतं प्राणोऽनु- त्क्रामति, प्राणमनुत्क्रामंतं सर्वे प्राणा अनूत्क्रामन्ति....तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च। बृ. IV. 4. 1-2.
c6.s4.54
(d) तद्यथा तृणजलायुका तृणस्यांतं गत्वाऽन्यमाक्रममाक्रम्या- त्मानमुपसंहरत्येवमेवायमात्मा इदं शरीरं निहत्य...अन्य- माक्रममाक्रम्यात्मानमुपसंहरति। तद्यथा पेशस्कारी पेशसो मात्रासुपादायान्यत्तरं कल्याणतरं रूपं तनुत एवमे- वायमात्मा इदं शरीरं निहत्य अविद्यां गमयित्वाऽन्यत्तरं कल्याणतरं रूपं कुरुते, पित्र्यं वा गांधर्वं वा दैवं वा प्राजा- पत्यं वा ब्राह्मं वाऽन्येषां वा भूतानाम्। स वा अयमात्मा यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन। अथो खल्वाहुः काममय एवायं पुरुष इति स यथाकामो भवति तत्क्रतुर्भवति, यत्क्रतुर्भवति तत्कर्मकुरुते, यत्कर्म कुरुते तदभिसंपद्यते। बृ. IV. 4. 3-5.
c6.s4.55
(e) अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामंति ब्रह्मैव सन् ब्रह्माप्येति। तदेष श्लोको भवति।
c6.s4.56
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति ॥
तद्यथाऽहिनिर्व्वयनी वल्मीके मृता प्रत्यस्ता शयीत, एवमेवेदं शरीरं शेतेऽथ अयमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव ।
बृ. IV. 4. 9-7.
c6.s4.57
अनन्दा नाम ते लोका अन्धेन तमसावृताः ।
तांस्ते प्रत्याभिगच्छन्त्यविद्वांसोऽबुधो जनाः ॥ बृ. IV. 4.11.
असुर्या नाम ते लोका अन्धेन तमसावृताः ।
तांस्ते प्रत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ई. 3.
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ॥
ई.9. and बृ. IV. 4. 10.
पीतोदका जग्धतृणा दुग्धदोहा निरेंद्रियाः ।
अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत् ॥
क. I. 1. 3.
c6.s4.58
यदा वै पुरुषोऽस्माल्लोकात्प्रेति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं स तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथा लम्बस्य खं तेन स ऊर्ध्व आक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खं तेन ऊर्ध्व आक्रमते स लोकमागच्छत्यशोक महिमं तस्मिन्वसति शाश्वतीः समाः ।
बृ. V. 10. 1.
c6.s4.59
(a) अथ यदु चैवास्मिञ् छव्यं कुर्व्वन्ति यदि च न, अर्चिषमेवाभिसंभवन्ति, अर्चिषोऽहः, अह आपूर्य्यमाणपक्षं, आपूर्य्यमाणपक्षाद्यान् षड्दङ्ङेति मासांस्तान्, मासेभ्यः संवत्सरं, संवत्सरादादित्यं, आदित्याच्चन्द्रमसं, चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एतान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्त्तं नावर्त्तन्ते नावर्त्तन्ते । छां. IV. 15. 5-6.
c6.s4.60
(b) तद्य इत्थं विदुर्य्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसंभवन्ति......स एतान् ब्रह्म गमयत्येष देवयानः पन्था इति । अथ य इमे ग्राम इष्टापूर्त्ते दत्त मित्युपासते ते धूममभिसंभवन्ति, धूमाद्रात्रिं, रात्रे रपरपक्षं, अपरपक्षाद्यान् षड् दक्षिणैति मासांस्तान्, नैते संवत्सरमभिप्राप्नुवन्ति । मासेभ्यः पितृलोकं, पितृलोकादाकाशं, आकाशाच्चन्द्रमसं
c6.s4.61
.....तस्मिन् यावत्संपातमुषित्वा अथ एतमेवाध्वानं पुनर्निवर्तन्ते , यथैतमाकाशमाकाशाद्वायुं, वायुर्भूत्वा धूमो भवति, धूमो भूत्वाऽभ्रं भवति, अभ्रं भूत्वा मेघो भवति, मेघो भूत्वा प्रवर्षति, त इह व्रीहियवा ओषधि वनस्पतयस्तिलमाषा इति जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद् भूय एव भवति ।
c6.s4.62
(c) तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चांडालयोनिं वा । छां. V. 10. 7.
c6.s4.63
(d) ये वै के चास्माल्लोकात् प्रयंति चन्द्रमसमेव ते सर्वे गच्छन्ति ....एतद्वै स्वर्गस्य द्वारं यच्चन्द्रमाः । तं यत्प्रत्याह तमतिसृजते य एनं प्रत्याह तमिह वृष्टिर्भूत्वा वर्षति, स इह कीटो वा पतंगो वा मत्स्यो वा शकुनिर्वा शार्दूलो वा सिंहो वा परश्वान् वा पुरुषो वाऽन्यो वैतेषु स्थानेषु प्रत्याजायते यथाकर्म यथाविद्यम् । कौ. I. 2.
c6.s4.64
(e) अथैतयोः पथोर्न कतरेनचन तानीमानि क्षुद्राण्यसकृदावर्त्तीनि भूतानि भवन्ति । जायस्व म्रियस्वेत्येतत्तृतीयं स्थानं, तेनासौ लोको न संपूर्यते तस्माज्जुगुप्सेत । छां. V. 10. 8. त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा दंशो वा मशको वा यद्यद्भवंति तदाभवंति । छां. VI. 9. 3.
c6.s4.65
(f) स एतं देवयानं पंथानमासाद्य अग्निलोकमागच्छति, स वायुलोकं, स वरुणलोकं, स आदित्यलोकं, स इंद्रलोकं, स प्रजापतिलोकं, स ब्रह्मलोकं....तं ब्रह्मा आह अभिधावत मम यशसा, विजरां वायं नदीं प्रापत्, न वाऽयं जिगीष्यतीति । तं पंचशतान्यप्सरसां प्रतियंति शतं फलहस्ताः शतं अंजनहस्ताः शतं माल्यहस्ताः, शतं वासोहस्ताः, शतं चूर्णहस्ताः....तं ब्रह्मालंकारेणालंकुर्वंति । स ब्रह्मालंकारेण-लंकृतो ब्रह्म विद्वान् ब्रह्माभिपैति...स आगच्छति विजरां नदीं तां मनसैवात्येति, तत्सुकृतदुष्कृते धुनुते । तस्य प्रियज्ञातयः सुकृतमुपयंत्यप्रिया दुष्कृतम् । तद्यथा रथेन धावन् रथचक्रे पर्यवेक्षत एवमहोरात्रे पर्यवेक्षत एवं सुकृत- दुष्कृते सर्वाणि च छन्दांसि। स एष विसुकृतो विदुष्कृतो ब्रह्म विद्वान् ब्रह्मैवाभिप्रेति।
c6.s4.66
25 (a) स य एवमेतद्राजनं देवतासु प्रोतं वेद एतासामेव देवतानां सलोकतां सार्ष्टिं सायुज्यं गच्छति। छां. II. 20. 2.
c6.s4.67
(b) वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः। ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे॥ मुं. III. 2. 6.
c6.s4.68
(c) यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्। तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति॥ मुं. III. 1. 3.
c6.s4.69
(d) गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु। कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति॥ यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्॥ मुं. III. 2. 7.-8.
c6.s4.70
स यथेमाः नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति। प्र. VI. 5.
c6.s4.71
यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसान् समवहारमेकतां रसं गमयन्ति ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमाः सर्वाः प्रजाः सति संपद्य न विदुः सति संपद्यामह इति....इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते पश्चात्प्रतीच्यस्ताः समुद्रात् समुद्रमेवापियन्ति समुद्र एव भवति ता यथा तत्र न विदुर्यमहमस्मीति। छां. VI. 6. 10.
c6.s4.72
(e) संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः। ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति॥
Cites (11)
- Chāndogyopaniṣad — Sanskrit
- Bṛhadāraṇyakopaniṣad — Sanskrit
- Taittirīyopaniṣad — Sanskrit
- Praśnopaniṣad — Pippalāda, Sanskrit
- Muṇḍakopaniṣad — Sanskrit
- Kauṣītakibrāhmaṇopaniṣad — Sanskrit
- Maitrāyaṇīyopaniṣad — Sanskrit
- Māṇḍūkyopaniṣad — Sanskrit
- Īśopaniṣad — Sanskrit
- Kaṭhopaniṣad — Sanskrit
- Aitareyopaniṣad — Mahidāsa Aitareya, Sanskrit