Pramāṇa · Search · About · API

A Constructive Survey of Upanishadic Philosophy c9.s1.34

A Constructive Survey of Upanishadic Philosophy c9.s1.34

Language
English

c9.s1.34

सा होवाच मैत्रेयी "यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् कथं तेनामृता स्यामिति " । " नेति " होवाच याज्ञवल्क्यः " यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यात् अमृतत्वस्य तु नाशास्ति वित्तेनेति " । सा होवाच मैत्रेयी " येनाहं नामृता स्यां किमहं तेन कुर्याम् ।...।" स होवाच याज्ञवल्क्यः प्रिया बता रे नः सती प्रियं भाषस एहास्व व्याख्यास्यामि ते ।...। स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवति, आत्मनस्तु कामाय पतिः प्रियो भवति । जायायै पुत्राणां°, वित्तस्य°, ब्रह्मणः°, क्षत्रस्य°, लोकानां°, देवानां°, भूतानां°, सर्वस्य° । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । आत्म- नो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् । बृ. II. 4. 2-5.

Cites (1)