Pramāṇa · Search · About · API

Education in Ancient India c16.s2.2

Education in Ancient India c16.s2.2

Language
English

c16.s2.2

अनुज्ञातेन प्रविचरता [ त्वया ] पूर्वं गुर्वर्थोपान्वाहरणे यथाशक्ति प्रयत्नितव्यम्। कर्मसिद्धिमर्थसिद्धिं यशोलाभं प्रेत्य च स्वर्गमिच्छता त्वया गोब्राह्मणादौ कृत्वा सवेप्राणभृतां शर्माशासितव्यम्। अहरहरत्तिष्ठता चोपविशता च सर्वात्मना चातुरामारोग्ये प्रयत्नितव्यम्। जीवहेतोरपि चातुरेभ्यो नाभिद्रोग्धव्यम्। मनसापि च परस्त्रियो नाभिममनीयास्तथा च सर्वमेव परस्वम्। निभृतवेशपरिच्छदेन भवितव्यम्। अशौण्डेनापापेनापापसहायेन च श्लक्ष्णशुक्लधर्म्मशार्म्यधन्यसत्यहितमितवचसा देशकालविचारिणा स्मृतिमता ज्ञानोत्थापनकरणसंपत्सु नित्यं यत्नवता च न कदाचित्…………… अनपवादप्रतिकाराणां मुमूर्षूणां च तथैवासन्निकृतेश्वराणां स्त्रीणामनभ्यक्षाणां वौषधमनुविधातव्यम्। न च कदाचित्स्त्रीदत्तममिषमादातव्यमननुज्ञातं भर्त्राथवाध्यक्षेण। आतुरकुलं…………………चानुप्रविश्य वाङमनोबुद्धीन्द्रियाणि न क्वचित्प्रणिधातव्यानि अन्यत्रातुरादातुरोपकारार्थादातुरगेष्वन्येषु वा भावेषु। न चातुरकुलप्रवृत्तयो बहिनिश्शारयितव्याः। हसितं चायुःप्रमाणमातुरस्य न वर्णयितव्यं जानतापि तत्र यत्रोद्यमानमातुरस्याप्यपघाताय संपद्यते।