Education in Ancient India c7.s7.t1.4
Education in Ancient India c7.s7.t1.4
- Language
- English
c7.s7.t1.4
नारायणोऽभिधानेन नारायण इवापरः ।
प्रधानः कृष्णराजस्य मन्त्री सन्सन्धिविग्रहे ॥
तेनेयं कारिता शाला श्रीविशाला मनोरमा ।
अत्र विद्यार्थिनः संति नानाजनपदोद्भवाः ।
शालाविद्यार्थिसंघाय दत्तवान्भूमिमुत्तमाम् ।
मान्यां निवर्तनानां तु पंचभिश्च शतैर्मिताम् ॥
निवर्तनानि दीपार्थ मान्यानि द्वादशैव च ।
पंच पुष्पाणि देयानि विवाहे सति तज्जनैः ।
देयं तथोपनयने विवाहे यत्पुरोदितम् ॥
केनचित्कारणेनेह कर्तव्ये विप्रभोजने ।
भोजयेत्तु यथाशक्ति परिषत्परिषजनम् ॥