Pramāṇa · Search · About · API

Minerals and Metals in Ancient India v2.c45.s10.3

Minerals and Metals in Ancient India v2.c45.s10.3

Language
English

v2.c45.s10.3

नृमूत्रे वाश्वमूत्रे वा तक्रे वा काञ्जिकेऽथवा। प्रताप्य मज्जितं सम्यक् खर्परं परिशुध्यति।।154-155।। हरिद्रात्रिफलालसिन्धुभूमैः सटङ्कणैः। सारुष्करैश्च पादांशैः साम्लैः सम्मर्द्य खर्परम्।। लिप्तं वृन्ताकमूषायां शोषयित्वा निरुध्य च। मूषां मूषोपरि न्यस्य खर्परं प्रधमेत्ततः।। खर्परे प्रहृते ज्वाला भवेन्नीला सिता यदि। तदा सन्दंशतो मूषां धृत्वा कृत्वा त्वधोमुखम्। शनैरास्फालयेद्भूमौ यथा नालं न भज्यते।। वङ्गाभं पतितं सत्त्वं समादाय नियोजयेत्।।157-161।। लाक्षागुडासुरीपथ्याहरिद्रासज्जर्टङ्कणैः। सम्यक्सञ्चूर्ण्य तत्पक्वं गोदग्धेन घृतेन च। वृन्ताकमूषामध्ये निरुध्य गुटिकाकृति। धमात्वा धमात्वा समाकृष्य ढालयित्वा शिलातले। सत्त्वं वङ्गाकृति ग्राह्यं रसकस्य मनोहरम्।।163-164।। यद्वा जलयुतां स्थालीं निखनेत्कोष्ठिकोदरे। सच्छिद्रं तन्मुखे मल्लं तन्मुखेऽधोमुखं क्षिपेत्। मूषोपरि शिखित्रिांश्च प्रक्षिप्य प्रधमेदृढम्। पतितं स्थालिकानीरे सत्त्वमादाय योजयेत्।।165-166।। तत्सत्त्वं तालकोपेतं प्रक्षिप्य खलु खपरे। मर्द्येल्लोहदण्डेन भस्मीभवति निश्चितम्।।167-168।।

Linked texts (1)