The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c4.s11.14
The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c4.s11.14
- Language
- English
c4.s11.14
¹ महामृत्युञ्जयलौहम् । शुद्धसूतं समं गन्धं जारिताभ्रं समं तथा । गन्धकाद्विगुणं लौहं मृतताम्रं चतुर्गुणम् । द्विक्षारं टङ्कणविडं वराटीमधुशङ्खकम् । चित्रकं कुनटीं तालं रामठं कटुकीं तथा । रोहितकं त्रिवृत् चिञ्चा विशाला धवसङ्कठम् । अपामार्गं ताललण्डमल्लिका च निशायुगम् । कानकं तुल्यकञ्चैव यकृन्महारसाञ्जनम् । एतानि समभागानि चूर्णयित्वा विभावयेत् । आर्द्रकस्य रसेनैव गुडूचीस्वरसेन च । मधुना कूडवैर्भाव्यं वटकां मासमात्रकम् । भक्षयेत् प्रातरुत्थाय सर्वोदरकुलान्तकृत् । प्लीहानं ज्वरमुग्रञ्च कासञ्च विषमज्वरम् । कासं श्वासं शिरोरोगं कर्णरोगं सशोथजम् । चिरजं कुब्जञ्चैव श्लीपदं हन्ति दारुणम् । रोगानोकविनाशाय धन्वन्तरिकृतं पुरा । मृत्युञ्जयमिदं लौहं सिद्धदं शुभदं नृणाम् ॥ रसेन्द्रसारसंग्रहः ।
Linked texts (1)
- Rasendrasārasaṃgraha (Gopāla Kṛṣṇā) — Gopāla Kṛṣṇā 1800, Sanskrit