Pramāṇa · Search · About · API

The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c4.s15.6

The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c4.s15.6

Language
English

c4.s15.6

¹ ज्वराशनि रसः । रसं गन्धं सैन्धवञ्च विषं ताम्रं समं समम् । सर्व्व चूर्णसमं लौहं तत्समं शुद्धमभ्रकम् । लौहे च लौहदण्डेन निर्गुण्डीस्वरसेन च । मर्द्दयेत्तु यत्नतः पश्चात् मरिचं सुतुल्यकम् । नागवल्लीदलेनैव दातव्यं रक्तिसम्मितम् । सर्व्वज्वरहरः श्रेष्ठः ज्वरान् हन्ति सुदारुणान् । कासश्वासं महाघोरं विषमख्यं ज्वरं वमिम् । धातुस्थं प्रबलं दाहं ज्वरदोषं चिरोद्भवम् । यकृद्गुल्मोदरं प्लीहं क्षययुञ्ज विनाशयेत् ॥ भैषज्यरत्नावली ।