Pramāṇa · Search · About · API

The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c4.s23.7

The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c4.s23.7

Language
English

c4.s23.7

कदली पलाशं तिन्त्रिड़ीं तथा । गृहीत्वा ज्वालयेदेतत् प्रस्थं भस्माखिलं यथा । जलाढ़के विपक्तव्यं यावत् पादावशेषितम् । सुप्रसन्नं विनिस्त्राव्य लवणं प्रस्थसंयुतम् । पक्वं निर्धूमकठिनं श्लक्ष्णचूर्णिकृतं पुनः । यवानी जीरकव्योषस्थूलजीरकहिङ्गुभिः । शीतॊदकेन तच्चूर्णं पिबेत् प्रातर्हि मात्रया । तस्मिन् जीर्णेऽन्नमश्नीयाद् यूषैर्जाङ्गलजै रसैः । ईषदम्लैः स लवणैः सुखोष्णैर्व्वह्निदीपनैः । एतेनाग्निर्ब्बर्द्धेत बलमारोग्यमेव च । तत्रानुपानं शस्तं हि तक्रं वा भोजनहितम् । मन्दाग्न्यर्शोविकारेषु वातश्लेष्मामयेषु च । सर्वाङ्गशोयरोगेषु शूलगुल्मोदरेषु च । अपथ्यां शर्करायाञ्च विसूचिकाऽनिलरोगिषु ।
भावप्रकाशः ।

Linked texts (1)