The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c4.s25.6
The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c4.s25.6
- Language
- English
c4.s25.6
¹ वसन्तकुसुमाकरः । पृथग् द्वौ हाटकं चन्द्रं त्रयो वङ्गाहिकान्तकम् । चत्वारिशुद्धमभ्रञ्च प्रवालं मौक्तिकं तथा । भावना गव्यदुग्धेन भावनेक्षुरसेन च । वासा लाक्षारसोदीच्य रम्भाकन्दप्रसूनकैः । शतपत्ररसेनैव मालत्याः कुसुमोदकैः । पश्चान्मुगमदैर्भाव्यं सुगन्धिरससम्भवे । गुञ्जाद्वयमिदं सेव्यं सितामध्वज्यसंयुतम् । मेहञ्च कान्तिदञ्चैव कामदं पुष्टिदं तथा । वलीपलितहञ्चैव स्मृतिभङ्गविनाशनम् । तुष्टिदं बल्यमायुष्यं पुत्रप्रसवकारकम् । प्रमेहान् विंशतिञ्चैव जयमेकादशं तथा । तथा सोमरुजं हन्यात् साध्यासाध्यमथापि च । कुसुमाकरनामायं वसन्तपदपूर्वकः । भेषज्यरत्नावलो ।
Linked texts (1)
- Bhaiṣajyaratnāvalī — Govindadāsa, Sanskrit