Pramāṇa · Search · About · API

The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c4.s27.4

The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c4.s27.4

Language
English

c4.s27.4

1 योगराजः । विफलायास्त्रयोभागास्त्रयःकटुकस्य च । भागास्त्वक-मूलस्य विड़ङ्गानां तथैव च । पञ्चांशजतुनो भागास्तथाप्यमलस्य च । माक्षिकस्य विशुद्धस्य लौहस्य रजतस्य च । अष्टौ भागाः सितायाश्च तत्सर्वं श्लक्ष्णचूर्णितम् । माक्षिकेषणसृतं स्थाप्यमायसे भाजने शुभे । उडुम्बरसमां मात्रां ततः खादेत् यथाग्निना । दिने दिने प्रयोगेन जीर्णे भोज्यं यथेप्सितम् । वर्जयित्वा कुलत्थांश्च काकमाची कपोतकान् । योगराज इति ख्यातो योगोऽयममृतोपमः । रसायनमिदं श्रेष्ठं सर्वरोगहरं परम् । पाण्डु रोगं विषं कासं यक्ष्माणं विषमज्वरम् । कुष्ठान्यजरकां मेहं श्वासं हिक्कामरोचकम् । विशेषान्न्यपचारं कामलां गुदजानि च । चक्रदत्तः ।

Linked texts (1)