The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c4.s8.33
The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c4.s8.33
- Language
- English
c4.s8.33
2 महाश्वासारिलौहम्। कर्षद्वयं लौहचूर्णं कर्षार्द्धं सभ्रमेव च। सिताकर्षद्वयं चैव मधुकर्षद्वयं तथा। त्रिफला मधुकं द्राक्षा कष्णा कोलास्थिवंशजा। ताली-पत्रं वैडङ्गं च पुष्करं च गदं तथा। एतानि श्लक्ष्णचूर्णानि कर्षार्द्धं समांशकम्। लौहे च लौहदण्डेन मर्दयेत् प्रहरद्वयम्। ततो मात्रां लिखेत् चौद्रैर्वा दोष-बलाबलम्। इदं श्वासारिलौहञ्च महाश्वासं विनाशयेत्॥ कासं पञ्चविधञ्चैव रक्तपित्तं सुदारुणम्। एकजं द्वन्दजञ्चैव तथैव सान्निपातिकम्। निहन्ति नात्र सन्देहो भास्करस्तिमिरं यथा॥ भेषजरत्नावली।
Linked texts (1)
- Bhaiṣajyaratnāvalī — Govindadāsa, Sanskrit