The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c5.s26.t1.27
The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c5.s26.t1.27
- Language
- English
c5.s26.t1.27
² नारायणतैलम् । बिल्वाग्निमन्थश्योणकापाटलापारिभद्रकः । प्रसारण्यश्वगन्धा च बृहतीकण्टकारिका । बलातिबलाचैव श्वदंष्ट्रा सपुनर्नवा । एषां दशपलान् भागान् चतुर्द्रोणेऽम्भसः पचेत् । पादशेषं परिस्त्राव्य तैलपात्रं प्रदापयेत् । शतपुष्पा देवदारु मांसीशैल्यकं वचा । चन्दनं तगरं कुष्ठमेलापर्णीचतुष्टयम् । रास्ना तुरगगन्धा च सैन्धवं सपुनर्नवम् । एषां द्विपलिकान् भागान् पेषयित्वाविनिक्षिपेत् । शतावरीरसञ्चैव तैलतुल्यं प्रदापयेत् । आजं वायदि वा गव्यं क्षीरं दत्त्वा चतुर्गुणम् । पाने वस्तौ तथाभ्यङ्गे भोज्ये चैव प्रशस्यते । अश्वो वा वातभग्नौ गजो वा यदि वा नरः । पङ्गुः पीठसर्पीच तैलेनानेन सिध्यति । अधोभागेच ये वाताः शिरोमध्यगताश्च ये । दन्तशूले हनुस्तम्भे मन्यास्तम्भे गलग्रहे । यस्य शुष्यति चैकाङ्गं मतिर्यस्य च विह्वला । एतत्तैलवरंतेषां नाम्ना नारायणं स्मृतम् । तगरं नतमत्स्यादभावेगोयलिखोपदः । चक्रदत्तः ।
Linked texts (1)
- Cakradatta (Cikitsāsaṅgraha) — Cakrapāṇidatta, Sanskrit