Pramāṇa · Search · About · API

The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c5.s30.t1.9

The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c5.s30.t1.9

Language
English

c5.s30.t1.9

¹ मृतसञ्जीवनोसुरा। नूतनं गुडसङ्ग्रहं शतमेकं पलं तथा। जलं अष्टगुणं देयं स्थापयेत् मृत्भाजने। बावरीत्वच सं ग्राह्य बदरीत्वचमेवच। प्रस्थं प्रस्थं प्रदातव्यं पूगदेयं यथोचितं। लोध्रञ्च कुडवं दत्वा आर्द्रकञ्च पलद्वयं। गुडं सगोलकं कृत्वा दापयेत् बुद्धिमान् भिषक्। प्रथमे आर्द्रकं देयं द्वितीये बावरीत्वचं। तृतीये बदरी दत्वा गोलयित्वा भिषग्वरः। सुखे सरायकं दत्वा यत्ने कृत्वा च वन्धनं। सुखसंवन्धनं कृत्वा स्थापयेदिन विंशतिं। मृत्पात्रे मयूराख्ययन्त्रके। यथाविधि प्रकारेण मन्द मन्देन वह्निना। चुल्लिमध्ये विधातव्यमृत्तिका दृढ भाजने। तदौषधञ्च तन्मध्ये उद्धरित्वा विनिचिपेत्। कुम्भमध्ये निधातव्यं पूगञ्च सैजवालुकं। देवदारु लवङ्गञ्च पद्मकोशीर चन्दनं। शत पुष्पा यमानी च मरिचं जीरक द्वयं। शठी मांसी त्वगेलाच जातिफलं समस्तकं। ग्रन्थिपर्णी तथाशुण्ठी मेथी सेषोच चन्दनं। एषा चार्द्धपलान् भागान् कुटयित्वा विनिचिपेत्। यथाविधि प्रकारेण चानलं दापयेत् सुधी। बुद्धिमान् शोधनं कृत्वा उद्धरेत् विधिवत्सुरां। एतन्मद्यं पिबेन्नित्यं यथाधातु वयक्रमात्। आरोग्यं देह दाव्यत्वं बलपुष्टिकरं सदा। उद्धृत पाठः।