Pramāṇa · Search · About · API

The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c5.s7.38

The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c5.s7.38

Language
English

c5.s7.38

³ रसायनमृतलौहः । त्रिकटु त्रिफला मुस्तं विडङ्गं जोरकद्वयम् । यमानी-द्वयं भूनिम्बं त्रिवृद्दन्तीच निम्बकम् । सर्वेषां कार्षिकं भागं सैन्धवं कर्षमर्द्धकम् । खण्डस्य षोडशपलं प्रस्थञ्च त्रिफलाजलम् । जम्बीराणां रसं दद्यात् पलषोडशकं तथा । पाच्यं सव्वं प्रयत्नेन लौहं दत्वा पलद्वयम् । सिद्धपाके पुनर्दद्यात् घृतं पलचतुष्टयम् । सर्वरोगेषु संयोज्यं महामृतरसायनम् । गुल्मं पञ्चविधं हन्ति यकृत्प्लीहोदराणि च । कामलां पाण्डुरोगञ्च शोथं जीर्णज्वरन्तथा । रोगान् सर्वान् निहन्याशु भास्करस्तिमिरं यथा । भैषज्यरत्नावली ।

Linked texts (1)