Pramāṇa · Search · About · API

The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c5.s8.t1.6

The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c5.s8.t1.6

Language
English

c5.s8.t1.6

¹ योगराजगुग्गुलुः । चित्रकं पिप्पलीमूलं यमानी कारवी तथा । विडङ्गान्यजमोदाश्च जीरकं सुरदारु च ।। चव्यंलासैन्धवं कुष्ठं रास्नागोक्षुरधान्यकम् । त्रिफलासुस्तकं व्योषं त्वगुशीरं यवाग्रजम् । तालीपत्रं पत्रञ्च सूक्ष्मचूर्णानि कारयेत् । यावन्त्येतानि चूर्णानि तावन्तावन्तु गुग्गुलुम् । संमर्द्य सर्पिषा गाढं स्निग्धे भाण्डे निधापयेत् । ततोमात्रां प्रयुञ्जीत यथेष्टा-हारवानपि । योगराज इति ख्यातोयोगोऽयममृतोपमः । आमवाताद्यवातादीन् कमिदुष्टव्रणानपि । प्लीहागुल्मोदरानाहहृद्रोगान् विनाशयेत् । अग्निञ्च कुरुते दीप्तं तेजोवृद्धिं बलन्तथा वातरोगान् जयेत्येष सन्धिमज्जगतानपि । चक्रदत्तः ।

Linked texts (1)