The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c6.s4.7
The Materia Medica of the Hindus, compiled from Sanskrit Medical Works c6.s4.7
- Language
- English
c6.s4.7
¹ कालानल रसः । अमृतं गरलं शङ्खं लौहताम्रञ्च टङ्कणम् । रसं गन्धं तु मरिचं पिप्पलं पञ्चपित्तैर्विभावयेत् । मातुलुङ्गद्रवै र्भाव्यं वटिका यवमानतः । धत्तूरक रसञ्चानु दापयेत् सान्निपातिके । अति तीव्र ज्वरं हन्ति सर्वोपद्रव संयुतं । हरिद्रा तैल संमिश्रं मर्दयेत् तीव्रतापिनं । तथा स्नानान्तरे गाढं लेपयेत् गन्धचन्दनं । दध्यन्न दापयेत् पथ्यं द्राक्षादिचाष्ट दाडिमं । कालानल रसो नाम्ना गोप्यः परमदुर्लभः । रसरत्नाकरः ।
Linked texts (1)
- Rasaratnākara — Nityanātha Siddha, Sanskrit