Yantras or Mechanical Contrivances in Ancient India c2.103
Yantras or Mechanical Contrivances in Ancient India c2.103
- Language
- English
c2.103
दृष्टेऽपि तस्मिन् विस्मयस्पृशो जनस्य " अयं किल यन्त्रपुरुषैः द्वन्द्वैः युद्धमहीनमादर्शितवान्। अनेन किल अलीकजलधरधाराजलजालदन्तुरितमन्तरिक्षं कृतम् । एष किल यन्त्रमयमिन्द्रजालकं कृतवान् । एष किल संख्येपु असंख्यानां युगपदेव भिनत्ति शत्रुहस्तिनां मस्तकस्थलानि मुसलमात्राभिः रिषुभिः। अमुना किल द्रमिडभाषया शूद्रकचरितमुपनिबद्धम् । अस्य किल पित्रा यवनानप्यतिशयानेन क्षुधितोऽयमिति यन्त्रेणासिधावितम् । अयं ततोऽप्यधिकः किल" इत्येवमासन् विकसितकुतूहलाः प्रलापाः।