A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c21.10
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c21.10
- Language
- English
v1.c21.10
शुद्धमृतसमं कुर्यात्प्रत्येकं गैरिकं सुधीः ।
इष्टकां खटिकां तद्वत्स्फटिकां सिन्धुजं च ॥
वल्मीकं क्षारलवणं भाण्डरञ्जकमृत्तिकाम् ।
सर्वाण्येतानि सञ्चूर्ण्य वाससा चापि शोधयेत् ॥
एभिःस्र्ैर्युतं सूतं यावद्यामं विमर्दयेत् ।
तच्चूर्णसहितं सूतं स्थालीमध्ये परिचिपेत् ॥
तस्याः स्थाल्या मुखे स्थालीमुपरां धारयेत्समाम् ।
सवस्त्रकुटितमृदा मुद्रयेदनयोर्मुखम् ॥
संशोष्य मुद्रयेद्भूयः संशोष्य मुद्रयेत् ।
सम्यग्विशोष्य मुद्रां तां स्थालीं चुल्ल्यां विधारयेत् ॥
अग्निं निरन्तरं दद्याद्यावद्दिनचतुष्टयम् ।
अङ्गारोपरि तद्यन्त्रं रचेद्यद्वादहर्निशम् ॥
शनैरुद्घाटयेद्यन्त्रं मूर्द्धस्थालीगतं रसम् ।
कर्पूरवत्सुविमलं गृह्णीयाद्गन्धवत्तरम् ॥