Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s7: अथ पञ्चमोऽध्यायः । अथ लोहानि ।

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s7

Language
English

अथ पञ्चमोऽध्यायः । अथ लोहानि ।

v1.c25.s7.1

अथ लोहानि ।

v1.c25.s7.2

अथ हेमगुणाः—

v1.c25.s7.3

शुद्धं लोहं कनकरजतं भानुलौहाश्मसारं
पूतीलोहं द्वितयमुदितं नागवङ्गाभिधानम् ।
मिश्रं लोहं त्रितयमुदितं पित्तलं कांस्यवत्तं
धातुर्लोहे लुह इति मतः सोऽप्यनेकार्यवाची¹ ॥ 1.

v1.c25.s7.4

¹ सोऽप्यनेकार्यवाची, a variant in the Poona ed., which we have adopted.

v1.c25.s7.5

प्राकृतं सहजं वङ्गमभूतं खनिसम्भवम् ।
रसेन्द्रवेधसञ्जातं स्वर्णं पञ्चविधं स्मृतम् ॥ 2.

v1.c25.s7.6

सौख्यं वीर्य्यं बलं हन्ति रोगवर्गं करोति च ।
अशुद्धं न मृतं स्वर्णं तस्माच्छुद्धं समाचरेत् ॥ 11.

v1.c25.s7.7

सुवर्णपत्रं तनु कर्षमानं²
शरावरुद्धं पटुधातुयुक्तम् ।

v1.c25.s7.8

² सुवर्णपत्रं तनु कर्षमानं, another reading in the Poona ed., which we have accepted.

v1.c25.s7.9

अङ्गारसंख्यं प्रहराईमानं ध्मानेन तत् स्यान्नतु पूर्णवर्णम्¹ ॥ 12.

v1.c25.s7.10

¹ पूर्णवर्णम्. a different reading in the Poona ed., which we have retained.

v1.c25.s7.11

लोहानां मारणं श्रेष्ठं सर्वेषां रसभस्मना । मूलीभिर्मध्यमं प्राहुः कनिष्ठं गन्धकादिभिः ॥ 13.

v1.c25.s7.12

अरिलोहेन लोहस्य मारणं दुर्गुणप्रदम् । कृत्वा कण्टकवेध्यानि स्वर्णपत्राणि लेपयेत् । लुङ्गाम्भभस्मसूतेन म्रियते दशभिः पुटैः ॥ 14.

v1.c25.s7.13

द्रुते विनिक्षिपेत् स्वर्णे लोहमानं मृतं रसम् । विचूर्ण्य लुङ्गतोयेन दरदेन समन्वितम् ॥ जायते कुङ्कुमच्छायं स्वर्णं द्वादशभिः पुटैः ॥ 15-16.

v1.c25.s7.14

हेम्नः पादं मृतं सूतं पिष्टमम्लेन केनचित् । पत्रे लिप्त्वा पुटैः पाचं दशभि²र्म्रियते ध्रुवम् ॥ 17.

v1.c25.s7.15

² पुटैः पाचं दशभिः, a variant in the Poona ed., which we have adopted.

v1.c25.s7.16

अथ रजतम्—

v1.c25.s7.17

सहजं खनिसञ्जातं कृत्रिमं च त्रिधा मतम् ॥22.
नागेन टङ्कणैव वापितं शुद्धिमुच्छति ।
खर्परे भस्मचूर्णाभ्यां परितः पालिकां चरेत् ॥
तत्र रूप्यं विनिचिष्य समसीसमन्वितम् ।
जातसीसक्षयं यावदमेत् तावत् पुनः पुनः ॥
इत्थं संशोधितं रूप्यं योजनीयं रसादिषु । 32-34.
लकुचद्रवसृताभ्यां तारपत्रं प्रलेपयेत् ॥
ऊर्ध्वाधो गन्धकं दत्त्वा मूषामध्ये निरुध्य च ।
स्वेदयेद्वालुकायन्त्रे दिनमेकं दृढाग्निना ॥
स्वाङ्गशीतां च तां पिष्टिं साम्रतालेन मर्दिताम् ।
पुटेद्वादशवाराणि भस्मीभवति रूप्यकम् ॥
35-37.
माक्षिकचूर्णलुङ्गाम्लमर्दितं पुटितं शनैः ।
त्रिंशद्वारेण तत् तारं भस्माञ्जायतेतराम् ॥ 38.

v1.c25.s7.18

(1) च त्रिधा, another reading in the Poona ed., which also agrees with B. and K.

v1.c25.s7.19

तारपत्रं चतुर्भागं भागैकं शुद्धतालकम् । मध्यं¹ जम्बीरद्रावैस्तारपत्राणि लेपयेत् ॥ शोषयेदथयन्त्रे च त्रिंशदुपलकैः पचेत् । चतुर्दशपुटैरेवं निरुत्थं जायते ध्रुवम् ॥ 40-41.

v1.c25.s7.20

अथ ताम्रम्— म्लेच्छं नेपालकं चेति तयोर्नेपालमुत्तमम् । नेपालादन्यदन्यत्तु म्लेच्छमित्यभिधीयते ॥ 44. जम्बीररससंपिष्टरसगन्धकलेपितम् । शुल्वपत्रं शरावस्थं विपुटैर्याति पञ्चताम् ॥ 55.

v1.c25.s7.21

अथायः— मुण्डं तीक्ष्णं च कान्तं च त्रिप्रकारमयः स्मृतम् ।

v1.c25.s7.22

अथ मुण्डम्— मृदु कुण्ठं कडारं च त्रिविधं मुण्डमुच्यते ॥ 70. द्रुतद्रावमविस्फोटं चिक्रणं मृदु तच्छुभम् । हतं यन्नसरेद्दुःखात् तत्कुण्ठं मध्यमं स्मृतम् । यद्यतं भज्यते भङ्गे कृष्णं स्यात्तत्कडारकम् ॥ 71 72.

v1.c25.s7.23

(1) The Poona ed. reads मध्यं, which is grammatically inaccurate.

v1.c25.s7.24

अथ तीक्ष्णम्—

v1.c25.s7.25

षड्विधं तीक्ष्णमुच्यते ॥ 75.
परुषं पोगरोन्मुक्तं भङ्गे पारदवच्छवि ।
नमने भङ्गुरं यत् तत् खरलोहमुदाहृतम् ॥ 76.
वेगभङ्गुरधारं¹ यत् सारलोहं तदीरितम् ॥ 78.

v1.c25.s7.26

¹ The Poona ed. reads वेगभङ्गुरधारम्, which is grammatically inaccurate.

v1.c25.s7.27

अथ कान्तम्—

v1.c25.s7.28

भ्रामकं चुम्बकं चैव कर्षकं द्रावकं तथा ।
एवं चतुर्विधं कान्तं रोमकान्तं च पञ्चमम् ॥
एकद्वित्रिचतुःपञ्चसर्वतोमुखमेव तत् ।
पीतं कृष्णं तथा रक्तं त्रिवर्णं स्यात् पृथक पृथक ॥
84-85.
भ्रामयेल्लोहजातं तु तत् कान्तं भ्रामकं मतम् ॥
चुम्बयेच्चुम्बकं कान्तं कर्षयेत् कर्षकं तथा ।
साक्षाद्द्रावयेल्लोहं तत् कान्तं द्रावकं भवेत् ॥
तद्रोमकान्तं स्फुटिताद्यतो रोमोद्गमो भवेत् ।
88-89.
मदोन्मत्तगजः सूतः कान्तमङ्कुशमुच्यते ॥

v1.c25.s7.29

चेत्रं खात्वा ग्रहीतव्यं तत्रयत्नेन धीमता । मारुतातपविच्छिन्नं वर्जयेन्नात्र संशयः ॥ 92-93. पात्रे¹ यस्य प्रसरति जले तैलविन्दुर्न लिप्तं गन्धं हिङ्गु त्यजति च तथा तिक्तां निम्बकल्कः । पाके दुग्धं भवति शिखराकारकं² नैति भूमिं कान्तं लोहं तदिदमुदितं लक्षणोक्तं न चान्यत् ॥ 94. रेतितं घृतसंयुक्तं चिञ्चायः खर्परे पचेत् । चालयेल्लोहदण्डेन यावत् चिमं तृणं दहेत् ॥ पिष्ट्वा पिष्ट्वा पचेदेवं पञ्चवारमतः परम् । धात्रीफलरसैर्वादा त्रिफलाक्थितोदकैः । पुटेल्लोहं चतुर्वारं भवेद्वारितरं खलु ॥ 104-105.

v1.c25.s7.30

(1) Cf. यत्पात्रे न प्रसरति जले तैलविन्दुः प्रतप्ते हिङ्गुगन्धं त्यजाति च निजं तिक्तां निम्बकल्कः । तप्तं दुग्धं भवति शिखराकारकं नैति भूमिं कृष्णङ्गं स्यात् मज्लचणकः कान्तलोहं तदुक्तम् ॥ भावप्रकाशे कान्तलौहप्रकरणम् ।

v1.c25.s7.31

(2) A variant in the Poona ed., which agrees with the भावप्रकाश, as quoted in the foot note.

v1.c25.s7.32

तोक्ष्णलोहस्य पत्राणि निर्दलान्ि दृढेऽनले ।
ध्मात्वा क्षिपेज्जले सद्यः पाषाणोलूखलोदरे ॥
खण्डयेद्गाढनिर्घातैः स्थूलया लोहपारया ।
तन्मध्यात्¹ स्थूलखण्डानि रुद्धा मल्लहयान्तरे ॥
ध्मात्वा क्षिप्त्वा जले सम्यक् पूर्ववत् खण्डयेत् खलु ।
तच्चूर्णं सूतगन्धाभ्यां पुटेद्विंशतिवारकम् ॥
पुटे पुटे विधातव्यं पेषणं दृढवत्तरम् ।
एवं भस्मीकृतं लोहं तत्तद्रोगेषु योजयेत् ॥

v1.c25.s7.33

¹ तन्मध्यात्, a reading in the Poona ed., which also agrees with B. and K.

v1.c25.s7.34

जम्बीरैरालनालैर्वा विंशत्यंशेन हिङ्गलम् ॥
पिष्ट्वा रुद्धा पचेल्लोहं तद्वैः पाचयेत् पुनः ।
चत्वारिंशत्पुटैरेवं कान्तं तोक्ष्णं च मुण्डकम् ॥
म्रियते नात्र सन्देहो दत्त्वा दत्त्वैव हिङ्गलम् ।

v1.c25.s7.35

शुद्धसूतं द्विधा गन्धं खल्ले तु कृतकज्जलीम् ।
द्वयोः समं लोहचूर्णं मर्दयेत् कन्यकाद्रवैः ॥

v1.c25.s7.36

यामद्वयात् समुद्धृत्य ताम्रपात्रके ।¹ आच्छाद्यैरण्डपत्रैश्च यामार्द्धेऽप्युष्णता भवेत् ॥ धान्यराशौ न्यसेत् पश्चात् त्रिदिनान्ते समुद्धरेत् । संपेष्य गालयेद्वस्त्रे सत्त्वं वारितरं भवेत् ॥ कान्तं तीक्ष्णं च मुण्डं च निरुत्थं जायते ध्रुवम् । स्वर्णादीन् मारयेदेवं चूर्णं कृत्वा च लोहवत् ॥

v1.c25.s7.37

लोहकिटं सुसन्तप्तं यावज्जीर्य्यति तत् स्वयम् । तच्चूर्णं जायते पेष्यं मण्डूरऽयं प्रयोज्यते ॥ 147. ये गुणा मारिते मुण्डे ते गुणा मुण्डकिटके । तस्मात् सर्वत्र मण्डूरं रोगशान्त्यै प्रयोजयेत्॥ 148.

v1.c25.s7.38

अथ वङ्गम्—

v1.c25.s7.39

खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते । खुरं तत्र गुणैः श्रेष्ठं मिश्रकं न हितं मतम् ॥ 153. धवलं मृदुलं स्निग्धं द्रुतद्रावं सगौरवम् । निःशब्दं खुरवङ्गं स्यान्मिश्रकं श्यामशुभ्रकम् ॥154.

v1.c25.s7.40

(1) ताम्रपाचके. a reading in the Poona ed., which also agrees with B. and K.

v1.c25.s7.41

वङ्गं तिक्तोष्णकं रुक्षमोषद्वातप्रकोपनम् ।
मेहश्लेष्मामयघ्नं च मेदोघ्नं क्रिमिनाशनम् ॥ 155.
द्रावयित्वा निशायुक्ते क्षितं निर्गुण्डिकारसे ।
विशुध्यति त्रिवारेण खरवङ्गं न संशयः ॥ 156.
मतालेनार्कदुग्धेन लिप्त्वा वङ्गदलान्यथ ।
बोधिचिञ्चात्वचः क्षारैर्दद्याल्लघुपुटानि च ॥
मर्द्दयित्वा चरेद्भस्म * * * ॥ 159-160.

v1.c25.s7.42

अथ सीसकम्—

v1.c25.s7.43

द्रुतद्रवं महाभारं केटे कृष्णमुज्ज्वलम् ।
पूतिगन्धं वह्निःकृष्णं शुद्धं सीसमतोऽन्यथा ॥ 171.
पलविंशतिकं नागमधस्त्वीव्रानलं क्षिपेत् ।
द्रुते नागे क्षिपेत् सूतं शुद्धं कर्षमितं शुभम् ॥
विमद्य निक्षिपेत् क्षारमेकैकं हि पलं पलम् ।
अर्जुनस्यात्तवत्तस्य महाराजगिरेरपि ।
दाडिमस्य मयूरस्य क्षित्वा क्षारं पृथक् पृथक् ॥

v1.c25.s7.44

(1) न्यथ, a variant in the Poona ed., which also agrees with B. and K.

v1.c25.s7.45

एवं विंशतिरात्राणि पचेत् तीव्रेण वह्निना । विघट्टयन् दृढं दोर्भ्यां लोहदर्व्या प्रयत्नतः ॥ रक्तं तज्जायते भस्म कपोतच्छायमेव वा । 176 179.

v1.c25.s7.46

शिलया रविदुग्धेन नागपत्राणि लेपयेत् ॥ मारयेत् पुटयोगेन निरुत्थं जायते तथा । 184-185.

v1.c25.s7.47

अथ पित्तलम्—

v1.c25.s7.48

रौतिका काकतुण्डी च द्विविधं पित्तलं भवेत् । सन्तप्ता काञ्जिके क्षिप्ता ताम्राभा रौतिका मता ॥ एवं या जायते कृष्णा काकतुण्डीति सा मता ॥

v1.c25.s7.49

गुर्वी मृद्वी च पीताभा साराङ्गी ताडनक्षमा । सुस्निग्धा मसृणाङ्गी च रौतिरेतादृशी शुभा ॥ 195. पूतिगन्धा तथा लघ्वी रौतिर्नेष्टा रसादिषु ॥ 196. निम्बूरसशिलागन्धवेष्टिता पुटिताष्टधा । रौतिरायाति भस्मत्वं ततो योज्या यथायथम् ॥ ताम्रवन्मारणं तस्याः कृत्वा सर्वत्र योजयेत् ।

v1.c25.s7.50

अथ कांस्यम्—

v1.c25.s7.51

अष्टभागेन ताम्रेण विभागकुटिलेन च ।
विद्रुतेन भवेत् कांस्यं * * * ॥ 205.
म्रियते गन्धतालाभ्यां निरुत्थं पञ्चभिः पुटैः ॥ 210.

v1.c25.s7.52

अथ वर्त्तलोहम्—

v1.c25.s7.53

कांस्यार्करीतिलोहाहिजातं तद्वर्त्तलोहकम् ।
तदेव पञ्चलोहाख्यं लोहविद्भिरुदाहृतम् ॥ 212.
म्रियते गन्धतालाभ्यां पुटितं वर्त्तलोहकम् ॥ 216.

Linked texts (2)