Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s7.28

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s7.28

Language
English

v1.c25.s7.28

भ्रामकं चुम्बकं चैव कर्षकं द्रावकं तथा ।
एवं चतुर्विधं कान्तं रोमकान्तं च पञ्चमम् ॥
एकद्वित्रिचतुःपञ्चसर्वतोमुखमेव तत् ।
पीतं कृष्णं तथा रक्तं त्रिवर्णं स्यात् पृथक पृथक ॥
84-85.
भ्रामयेल्लोहजातं तु तत् कान्तं भ्रामकं मतम् ॥
चुम्बयेच्चुम्बकं कान्तं कर्षयेत् कर्षकं तथा ।
साक्षाद्द्रावयेल्लोहं तत् कान्तं द्रावकं भवेत् ॥
तद्रोमकान्तं स्फुटिताद्यतो रोमोद्गमो भवेत् ।
88-89.
मदोन्मत्तगजः सूतः कान्तमङ्कुशमुच्यते ॥