Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c34.155

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c34.155

Language
English

v2.c34.155

स्यादेतत्—कथं एकरूपाणां गुणानां अनेकरूपा प्रवृत्तिः—इत्यत आह परिणामतः सलिलवत्। यथा वारिदविमुक्तं उदकं एकरसं अपि सत्त्वूविकारान् आसाद्य नारिकेल-ताळी-विल्व- चिरविल्व-सिन्दुकामलक-कपित्थ फल रसतया परिणामात् मधुरा- म्ललवणतिक्त कटुकषायतया विकल्पते, एवमेकैकगुणसम्भवात् प्रधानं गुणं व्याश्रित्य अप्रधानगुणाः परिणामभेदान् प्रवर्त्तयन्ति । तदिदमुक्तं प्रतिप्रति गुणाश्रयविशेषात्, एकैकगुणाश्रयेण यो विशेषस्तस्मात् इत्यर्थः ।