A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c34.238
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c34.238
- Language
- English
v2.c34.238
अभिवहन्तः)। पञ्चभूतात्मके देहे आहारः पाञ्चभौतिकः। विपक्कः पञ्चधा सम्यग्गुणान् स्वानभिवर्द्धयेत्। Susruta, Sútrasthána, Chap. 46. Cf. also वियत्पवनजाताभ्यां वृद्धिमाप्नोति मारुतः। आग्नेयमेव यद्द्रव्यं तेन पित्तमुदीर्य्यते। ibid., Chap. 41. भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः, पञ्चाहारगुणान् खान् खान् पार्थिवादीन् पचन्तनु। यथास्वं ते च पुष्णन्ति पञ्चा भूतगुणान् पृथक्, पार्थिवाः पार्थिवामेव शेषाः शेषांश्च देहगान्। अतिरिक्ता गुणा रक्ता वह्निर्मांसे तु पार्थिवाः। मेदस्यपां भुवश्चास्य पृथिव्यनिलतेजसाम्। Charaka, quoted by Dalvana. आदौ षड्रसमप्यन्नं मधुरोभूत-मोरयेत्, फेणीभूतं कफं यात विदाहादम्लतां ततः। वायुना समानाख्येन ग्रहणीमभिनयते। षष्ठी पित्तधरा नाम या कला परिकीर्त्तिता, आमपक्काशयान्तःस्था ग्रहणी साभिधीयते। अग्न्यधिष्ठानमन्नस्य ग्रहणाद्ग्रहणी मता। भुक्तमामाशये रुद्धा सा विपाच्य नयत्यधः। बलवत्यबला त्वन्नमाममेव विमुञ्चति।....अन्नस्य पक्तृ पित्तन्तु पाचाख्यं पुरेरितम्। दोषधातु-मलादीनामुपसेव्या-वेयशासनम्।....तेजोरसानां सर्वेषामम्बुजानां यदुच्यते, पित्तोष्मणा सरागेण रसो रक्तत्वमृच्छति। वाय्वग्नितेजसा युक्तं रक्तं मांसत्वमृच्छति। श्लेष्माणं च समाश्रित्य मांसं वाय्वग्निसंयुतम्, स्थिरतां प्राप्य शौक्ल्यं च मेदो देहेऽभिजायते। पृथिव्यनिलादीनां सङ्घातः श्लेष्मणावृतः, खरत्वं प्रकरोत्यस्य जायतेऽस्थि ततो नृणाम्। करोति तत्र सौषिर्य्यमस्य मध्ये समीरणाः। मेदसा तानि पूर्य्यन्ते स्नेहो मज्जा ततः स्मृतः। तस्मान्मज्जतः स्व
Linked texts (2)
- Carakasaṃhitā — Agniveśa (Āyurveda) & Caraka, Sanskrit
- Suśrutasaṃhitā — Suśruta & Nāgārjuna (siddha/alchemist), Sanskrit