A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c34.306
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c34.306
- Language
- English
v2.c34.306
अणवः स्कन्धाश्च । उक्तं च । कारणमेव तदन्तं सूक्ष्मं नित्यश्च भवति परमाणुः । एकरसगन्धवर्णौ दिस्पर्शः कार्यलिङ्गश्च । तत्राणवोटबद्धाः स्कन्धास्तु बद्धा एव । स्कन्धात्लावत संघातभेदेभ्य उत्पद्यन्ते । संघातङ्गेदात् संघातमेदादिति । द्वयोः परमाणुः संघाताद्वि प्रदेशः । द्विप्रदेशस्याणोश्च संघातात् विप्रदेशः । एवं संख्येयानामसंख्येयानामन्नन्तानां अनन्तानन्तानां च प्रदेशानां संघातात् प्रदेशाः । भेदादणुः । भेदादेव परमाणु रुतपद्यते न संघातादिति । अत्राह । किं संयोगमावादेव संघातौ भवति । आहोखिदस्ति कश्चिद्विशेष इति । अत्रोच्यते । सति संयोगे बद्धस्य संघातौ भवतीति । स्निग्धरुक्षत्वाद्ध्वः । न जघन्यगुणानाम् । स्निग्धरुक्षयोः पुद्गलयोः स्पष्टयोर्बन्धो भवतीति । जघन्यगुणास्निग्धानां जघन्यगुणरुक्षाणां च परस्परेण बन्धो न भवतीति । उक्तं भवता जघन्यगुणवर्ज्जानां स्निग्धानां रूक्षेण रूक्षाणां च स्निग्धेन सह बन्धो भवतीति । अथ तुल्यगुणायाः किमत्यन्तप्रतिषेध इति । अत्रोच्यते । न । गुणासाम्ये सदृशानां गुणासाम्ये सति सदृशानां बन्धो न भवति । तद्यथा । तुल्यगुणस्निग्धस्य तुल्यगुणस्निग्धेन तुल्यगुणरुक्षस्य तुल्यगुणरुक्षेण इति । अत्राह सदृशग्रहणा किं प्रपद्यते इति । अत्रोच्यते । गुणवैषम्ये सदृशानां बन्धो भवति इति । अत्राह किमविशेषेण गुणवैषम्ये सदृशानां बन्धो भवतीति । अत्रोच्यते । द्वयधिकादिगुणानां तु द्वयधिकादिगुणानां सदृशानां बन्धो भवति । द्विगुणाद्याधिकस्निग्धेन । द्विगुणाद्याधिकस्निग्धस्य स्निग्धेन । रूक्षस्यापि द्विगुणाद्याधिकरुक्षस्य रूक्षेण । एकादिगुणाधिकयोस्तु सदृशयोर्बन्धो न भवति । अत्राह परमाणुषु स्कन्धेषु च ये स्पर्शादयो