A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c34.51
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c34.51
- Language
- English
v2.c34.51
क्षणतत्क्रमयोर्नास्ति वस्तुसमाहार इति बुद्धिसमाहारः मुहूर्त्ताहोरात्रादयः। स खल्वयं कालः वस्तुशून्यो बुद्धिनिर्म्माः शब्दज्ञानानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इव अवभासते। क्षणस्तु वस्तुपतितक्रमावलम्बी। क्रमश्च क्षणान्तर्व्यात्मा। तं कालविदः काल इति आचक्षते योगिनः। न च द्वौ क्षणौ सह भवतः, क्रमश्च न द्वयोः सहभुवोरसम्भवात् पूर्वस्मादुत्तरभाविनो यदानन्तर्य्यं क्षणस्य स क्रमः। तस्मात् वर्त्तमान एवैकः क्षणः न पूर्वोत्तरक्षणाः